________________
न्यायावतारः, २९
15
तावन्तोंऽशा बहिरर्थे विरुध्यन्ते इति चेत्, पाटवापाटवादयो दर्शनेऽप्येकस्मिन् न विरुध्यन्ते इति किं राज्ञामाज्ञा । तस्मान्न क्षणक्षयिपरमाणुलक्षणस्वलक्षणलक्षकं क्वचित् कदाचिद्दर्शनं लक्षयन्ति, भवन्तोऽपि केवलं स्वदर्शनानरक्तान्तःकरणतया न तदसत्ता प्रतिपद्यन्ते । स्वांशव्यापिनं कालान्तरानुयायिनमेकं बहिरन्तश्चार्थ बोधं च प्रकाशयन् प्रथमानो निर्णयः न पुननिर्मूलकः कुयुक्तिविकल्पैर्बाध्यते इति न भ्रान्तः । कि चास्य भ्रान्ततां कथयन् सर्वप्रमाणप्रमेयव्यवस्थामुन्मूलयति । तथा हि-यत्सत्त्वबोधरूपत्वसुखत्वादिषु प्रमाणं तदेव क्षणक्षयित्वस्वर्गप्रापणशक्तियुक्तत्वादिषु अप्रमाणम्, तथा
यद्वस्तु नोलचतुरस्रोर्ध्वतादिरूपतया प्रमेयं तदेव मध्यभागक्षणविवर्तादिना10 प्रमेयम्, तथा यद् बहिरर्थापेक्षया सविकल्पकं स्वप्नादिदर्शनं वा भ्रान्तं तदेव
स्वरूपापेक्षयाभ्रान्तम्, तथा यग्निशीथिनीनाथद्वयादिकं द्वित्वेऽलोकं तदपि धवलतानियतदेशचारितादावनलीकमिति निर्णयः । यदि तु विरोधाद् बिभ्यद्धिर्भवद्भिरयमपह्नयते, किमपरमैकान्तिकं प्रमाणं प्रमेयं चोररीकृत्य स्वाकृतं प्रतिष्ठापयेयुरिति सकौतुकं नश्चेतः । अथ ज्ञानवादी अद्वैतप्रकाशमलक्षितमभ्युपेत्य तेन बाहविध्यं दधानो बोधो बाध्यमानत्वाद् भ्रान्त इत्यभिदध्यात्, तदयुक्तम्, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गात्, अलक्षितनिर्विकल्पदर्शनस्य च प्रागेव प्रतिक्षिप्तत्वात् । अथ युक्तिर्बोधस्य वैविध्यं बाधेत, तथा हि-भ्रान्ताभ्रान्तसंवेदनविवेकस्य कर्तुमशक्यत्वात्, संविन्मात्रस्य तु
सर्वत्राव्यभिचारित्वाद् अद्वयं संवेदनं विविक्तयुक्त्या प्रकाशमानमनादिकाला20 लीनवासनासमुपजनितसंवृतिदर्शितसत्ताकं सितासितादिविविधप्रतिभासं निरा
कुरुते । अत्र प्रतिविदध्महे-किमयमनेकाकारो बोधोऽद्वयसंवेदनाद् व्यत्यरैक्षीद् वा न वा, किं चातो यदि व्यभत्सीत्, कथमदृष्टतत्कार्यत्वे व्यतिरिक्तोऽयं तदद्वयसंवेदनमनुमापयेत् । अव्यतिरेकपक्षे पुनरनेकः सन् एकसंवेदनतादात्म्येन
प्रथमानः कथमद्वैतं नोद्दलयेत् । अथ संवृतिदर्शितत्वादलोकतया अस्य 25 सितासिताद्याकारबहिर्मुखकालुष्यस्य बोधेन तात्त्विकेन सह भेदाभेदविकल्पानु
पपत्तिरिति ब्रूषे, तथा सति परो बोधस्यापारमार्थिकत्वं अविद्यादर्शितत्वात्, अर्थसत्तायाः पुनस्तत्त्वरूपता, सर्वत्राव्यभिचारादिति ब्रुवाणो दुनिवारः स्यात् । जडस्य प्रकाशायोगात् संवित्तिः सत्या, नार्थ इति चेत्, एकस्याने
कतावभासाभावादनेकान्तः सत्यः नाद्वैतमिति प्रतिजानीमहे । संवृत्याद्वय30 स्यापि नानाप्रतिभासोऽविरुद्ध इति चेत्, अनाद्यविद्याबलाज्जडस्यापि चेतनतया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org