________________
न्यायावतारः, २९
दुरुपपादम् । अस्तु चायमनेकान्तावभासो भ्रान्तस्तथापि संवेदनस्याद्वयता न लक्ष्यते, तल्लक्षणे सकलासुमतामधुनैव मुक्ततावाप्तेः, लक्ष्यते च तत्कथंचित्, इतरथा सुषुप्तदशावत् सर्वव्यवहारोच्छेदप्रसङ्गात्, इत्येकस्यापि संवेदनस्य लक्षितालक्षितत्वेनानेकान्तप्रतिभासो दुःशकोऽपह्नोतुमिति ज्ञानवाद्यप्यस्य हेतोरसिद्धताविर्भावनं प्रति तूष्णीमासीत् ॥
शून्यवादिनः समस्ताभावादसिद्धोऽनेकान्तप्रकाश इति चेन्न, तस्यापि प्रमाणप्रमेयाभावेन सर्वाभावावेदनं समस्ति, अन्यथाप्रमाणकं सवं सर्वत्र विद्यते इति परस्यापि वदतो न वदनभङ्गः स्यात्, तदभ्युपगमेऽभ्युपगमक्षतिः । तयोश्च दर्शितवदनेकान्तप्रकाश इति नासिद्धो हेतुः । मरुमरीचिकानिचयचुम्बिनि संवेदने जलोल्लेखेऽपि तद्गोचरत्वाभ्युपगमाभावादनैकान्तिकोऽयमिति मा शङ्किष्ठाः, तस्य भ्रान्तत्वात्, अभ्रान्तः प्रकाशो हि तदभ्युपगतिहेतुः । अथायमपि इतरेतरविनिर्लुठितपरमाणुक्षणक्षयिबोधेन बाध्यमानत्वात् भ्रान्त इत्याचक्षीथाः, तदयुक्तम्, यतस्तद्बोधः किमुपलब्धिमात्रं यद्वा निर्णयो वा । यद्याद्यः कल्पः, तदानुमानं विशीर्येत, निर्गोचरत्वात्, प्राथमकल्पिकेनैव निर्विकल्पकविविक्तदर्शनेन विरोधभीरुतया सर्वथा वस्तुग्रहणाभ्युपगमात्, प्रमाणकलिते च मानान्तरवैयर्थ्यादनवस्थाप्राप्तेः । अथ द्वितीयः, तथा सति सर्वं निर्विकल्पकमप्रमाणतामश्नुवीत । न च निर्णयोऽनेकान्तप्रकाशं बाधते, अपि तु समर्थयते, बहिरन्तश्च तथैव तद्विजृम्भणात् । अथ सर्वथा वस्तुग्रहणेऽपि निर्विकल्पकं यत्रांशे पाश्चात्यं व्यवहारकारिव्यवसायमुपजनयति, तत्रैव प्रमाणतामास्कन्दति नान्यत्रेति मन्येथाः, तथा सति यदनन्तरमर्थक्रिया- 20 समर्थार्थप्रार्थनया पुरुषः प्रवर्तते स एव निर्णयः प्रामाण्यं स्वीकुर्यान निर्विकल्प - कम्, तज्जनकत्वेऽपि संनिकर्षादिवदित्यासज्येत । निर्विकल्पकमनधिगतार्थाधिगन्तृत्वात् प्रमाणं न व्यवसितिः तद्विकल्पत्वादिति चेन, अनुमितेरपि तद्वदप्रामाण्यप्रसङ्गात् । न च विपरीताकारनिराकरणच तुरतयानुमितिविशेषवती, निर्णीतेरपि तदपनोददक्षत्वादसमारोपविषयेऽप्रवृत्तेः । त्रिरूप- 25 लिङ्गजतया विशेषोऽनुमितेर्मानतासाधक इति चेत्, साक्षादनुभवादुत्पादस्तर्हि निर्णीतेर्महापराध इति भवतो बालतामीक्षामहे । किं च यथा निर्विकल्पक - मलक्षितं सकलव्यावृत्तस्वलक्षणग्रहणप्रवणमपि कतिचिदंशविषयं विकल्पमुत्थापयति, तथार्थ एवेन्द्रियालोकादिसंनिकृष्टतया कतिचिन्निजांशविषयं साक्षाद् विशदविकल्पं जनयेदिति किमजागलस्तनकल्पनिर्विकल्पकल्पनया ।
30
Jain Education International
81
For Personal & Private Use Only
5
10
15
www.jainelibrary.org