________________
107
न्यायावतारः, ३२ सादिस्तनाभिलाषवत् । तदिदमनुमानमाद्यस्तगाभिलाषस्याभिलाषान्तरपूर्वकत्वमनुमापयदर्थापत्या परलोकयायिजीवमाक्षिपति, तज्जन्मन्यभिलाषान्तराभावात्, एवमन्यदप्युदाहार्यमित्यास्तां तावत् । तदयं स्वपरप्रकाशः कर्ता भोक्ता नित्यानित्यात्मको भूतविलक्षणः साक्षात्कृतकतिचिनिजपर्यायानुमितानाद्यनन्तकालभाविनिजानन्तपर्यायविवर्तः प्रमाणप्रतिष्ठितः पारमार्थिको जीवः 5 सकलनयप्रमाणव्यापकः प्रमातेति स्थितम् ॥ ३१ ॥ सांप्रतं पर्यन्तश्लोकेन प्रकरणार्थमुपसंहरन्नाह -
प्रमाणादिव्यवस्थेयमनादिनिधनात्मिका ।
सर्वसंव्यवहर्तृणां प्रसिद्धापि प्रकीर्तिता ॥३२॥ प्रमाणानि प्रत्यक्षादीनि, आदिशब्दात् नयपरिग्रहस्तेषां व्यवस्था प्रति- 10 नियतलक्षणादिरूपा मर्यादा सेयमनन्तरोक्तस्थित्या प्रकीर्तितेति संसर्गः । किभूता । आह-आदिः प्रभवः, निधनं पर्यन्तः, न विद्यते आदिनिधने यस्यासौ तथाविध आत्मा स्वरूपमस्याः सा अनादिनिधनात्मिका सर्वसंव्यवहर्तणां लौकिकतीर्थिकादिभेदभिन्नसमस्तव्यवहारवतां प्रसिद्धापि रूढापि, तदप्रसिद्धौ निखिलव्यवहारोच्छेदप्रसङ्गात्, तदुच्छेदे च विचारानुत्थानेन कस्यचित्तत्वस्य 15 न प्रतिष्ठितिः, प्रकीर्तिता संशब्दिता, अव्युत्पन्नविप्रतिपन्नव्यामोहापोहायेति गम्यते, प्रमाणप्रसिद्धेऽप्यर्थे प्रबलावरणकुदर्शनवासनादितः केषांचिदनध्यवसायविपर्यासरूपव्यामोहसद्भावात्, तदपनोदार्थ च सति सामर्थ्य करुणावतां प्रवृत्तेरिति ॥ ३२॥ स्याद्वाद्वकेसरिसुभीषणनादभीतेरुत्त्रस्तलोलनयनान् प्रपलायमानान्। 20 हेतुर्नयाश्रितकुतीर्थिमगाननन्यत्राणान् विहाय जिनमेति तमाश्रयध्वम् ॥१॥ भक्तिर्मया भगवति प्रकटीकृतेयं तच्छासनांशकथनान्न मतिः स्वकीया। मोहादतो यदिह किंचिदभूदसाधु तत्साधवः कृतकृपा मयि शोधयन्तु ॥२॥ न्यायावतारविवति विविधां विधित्सोः सिद्धः शुभो य इह पुण्यचयस्ततो मे। नित्यः परार्थकरणोद्यतमा भवान्ताद् भूयाज्जिनेन्द्रमतलम्पटमेव चेतः ॥ ३ ॥ 25
इति न्यायावतारविवृतिः समाप्ता ॥ कृतिरियमाचार्यसिद्धव्याख्यानिकस्य । ग्रन्थानम् २०७३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org