________________
अ. प्रा. जैनलेखसन्दोहे
जिनशासनकमलरविः साधुः श्रीगोसलो विशदकीर्त्तिः । गुणरत्नरोहणवरा गुणदेवी प्रियतमा तस्य ॥ ३० ॥ सद्धर्मकम्म कनिब (*) द्धबुद्धिस्तद्गजः श्रीधन सिंहसाधुः ।
€
भार्या तदीया मदया वदाज्ञा (न्या)
मान्या सतां धांधलदेविसंज्ञा ॥ ३१ ॥
साधोभी (i) मस्य सुतो हांसलदेकुक्षिसंभवः श्रीमान् । म ( * ) हिमानिधिर्महौजा महामतिर्महणसिहाख्यः ॥ ३२ ॥
मयणलदेवीवर कुक्षिशुक्तिमुक्तास्त्रयस्तत्तनया जयंति । ज्येष्टो (ष्ठो) जगद्वयापियशः प्रकाशः
Jain Education International
साध्वग्रणीला (ल) लिग(*) साधुराजः ॥ ३३ ॥
आश्विनेयाविव श्रेष्ठौ कनिष्ठौ गुणशालिनौ । सीहा - लाषाभिधौ धर्मध्यानप्रवणमानसौ ॥ ३४ ॥ षट् सुता धनसिंहस्य मूर्ता ( * )[इव] षडर्त्तवः ! विश्वविश्वोपकारायावतीर्णाः पृथ्वी (थिवी ) तले || ३५ ॥ तेषामाद्यः साधुवी (व) जड इति विमलम (त) रयशः प्रसरः । गुणसागरः षिमधरः सज्ञ ( ज्ज) न ( * ) मान्यः समरसिंहः ॥ ३६ ॥ राजसमाजश्रेष्ठ विख्यातो (तः) साधुविजपालः ।
निपुणमतिर्नरपालः सुकृतरतो वीरधवलाख्यः ॥ ३७ ॥
For Personal & Private Use Only
www.jainelibrary.org