________________
अ. प्रा. जैनलेखसन्दोहे
॥ अथ राजावली ॥ वैरिवर्गदलने गततंद्रश्चाहवामकुलकैरवचंद्रः । यो नदूलन(*)गरस्य नरेश आसराज इति वीरवरोऽभूत् ॥ १४ ।। प्रबलवैरिदवानलवारिदः समरसिंह इति प्रथितस्ततः । महणसिहभटः सुभटाग्रणीः पृथुयशा अजनिष्ट तदंगजः ॥ १५ ॥ प्रतापमल्लस्तदनु प्रता(*)पी बभूव भूपालसदम् मान्यः । वीरावतंसोऽननि वीजडो[s]म्य मरुस्थलीमंडलभूमिभर्ता ॥ १६ ॥
आमन त्रयम्तत्तनया नयाढ्या ___मूर्ताः पुमर्था इव भागभो(भोगभा)जः । आयो धरित्रीपतिरक्षपाल:
ख्यातः क्षितो(तो) लूणिग(*)नामधेय[:] ॥१७॥ न्यायमार्गशिखरीमधुमासः कालवक्ष(त्क)वलयन्नरिव्रजम् । मंडलीकपदवीमपालयल्लुढ इत्यभिधया धियांनिधिः ॥ १८ ॥ विपक्षनारीनयनांबुरेश्चकार यः कीर्ति(*)लतां सपत्राम् । बभूव भूमिपतिलब्धमानो लुभाभिधानो जगदेकवीरः ॥ १९ ॥ संहत्य शत्रून प्रबलानु(न) बलेन श्रीअबु(बु)दं प्राप्य नगाधिराजम् । भुक्त्वा स भूमंडलराज्यमुच्चैः स्वलों(*)कलोकाधिपतिर्बभूव ॥ २० ।। लूणिगस्य तनुजो जगज्जयी तेजसिंह इति तेजमां निधिः । यत्प्रतापदवपावकश्चिरं वैरिवर्गविपदं(वधं) न(द)हति स्म ॥ २१ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org