________________
२६२ ] अध्याय आठवाँ । शक्राधिदेवं सदयं शरण्यं शक्रादिदेवाः शरणं व्रजन्ति ॥ २३ ।। यथोचितं भक्तिविराजमानैर्यक्षरसंख्यैरनुगम्यमानः । त्वत्यापशाखानखदिव्यदीप्त्या विभ्राजमानं कुरुते किरीटम् ॥ २४ ॥ यमोऽपि मत्तं महिष प्ररूढः पत्नीसमेतो धृतधर्मदंडः । बद्धांजलिस्तिष्ठति देव नम्रः करः प्रकृत्याऽपि हि पूजयंस्त्वाम् ॥२५॥ प्राप्ताश्च शेषाः प्रतिहारभूमि नाथा दिशामादरपालिताज्ञाः । कल्पद्रुपुष्पाणि तवांध्रियुग्म किरन्ति भक्तिप्रणतोत्तमांगाः ।। २६ ।। गंभीरमंद्रध्वनिपूरिताशा: प्रशस्तवाचो धृतदिध्यवीणाः । गंधर्वपूंगास्तव कीर्तिमच्छां गायन्त्यहो भक्तिविशुद्धदेहाः ॥ २७ ॥ ध्यायन्ति ये पूज्यमनन्तवीर्य नाथं त्रिसंध्यं करुणापयोधिम् । असंशयं ते क्षतकर्मबंधाः कल्याणभाजो मनुना भवन्ति ॥ २८ ॥ तस्मात्प्रमादानवधूय जन्तोः संरक्षणार्थं भवदुःखसंघात् । लोकस्य निष्कारणबंधुमेतं श्रीशान्तिनाथं भज शान्तिहेतुम् ॥ २९ ।।
स्तोत्रैमत्रैः कठिनतपसा चाथ भक्त्याप्रणत्या यः स्मृत्या वा विशदहृदयः सेवते देवदेवम् । पुण्यात्मानं कथभिव नतं संश्रयंते नृवर्यम् । लक्ष्मीविद्याऽभिमतफलदातापशान्तिश्च मुक्तिः ॥ ३० ।। या चौगुलेत्युपाढेन अण्णप्पा नामधारिणा ।। जिनभक्त्यावनम्रेण वेणुग्रामनिवासिना ।। स्तुतिस्तापापहाराख्या जिनस्य रचिता तु सा। तनोतु विदुषो हर्ष पिकस्यैवाम्रमंजरी ।। युग्मम् ।।
इति सर्व शुभम् । " करकृतमपराधं संतुमर्हतु संतः ॥"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org