SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीवीतरागाय नमः श्रीसमन्तभद्रस्वामिकृतचतुर्विंशति-जिनस्तुतिः। आदिनाथस्तुतिः। स्वयम्भुवा भूतहितेन भूतले, समंजसज्ञानविभूतिचक्षुषा ॥ विराजितं येन विधुन्वता तमः, ; क्षपाकरेणेव मुणोत्करैः करैः ॥१॥ .. - स्वयम्भुवेत्यादि:- स्वयं परोपदेशमन्तरेण मोक्षमार्गमवबुद्धय अनुष्ठाय वाऽनंतचतुष्टयतयाः भवतीति स्वयम्भूः तेन स्वयम्भुवा विराजितं शोभितं । क. भूतले पृथ्वीतले । कथंभूतेन भूतहितेन भूतानि प्राणिनस्तेभ्यो हितं हितस्य मोक्षसौख्यस्य प्राप्त्युपायदर्शकत्वेन प्रापकत्वात् परमकारुणिकत्वाच्च, तेन । पुनरपि कथम्भूतेन ? समंजसज्ञानविभूतिचक्षुषा । सङ्गतं सर्वपदार्थैः सह ग्राहकत्वेन सम्बद्धमंजसमवतथ्यं तच्च तज्ज्ञानंच, तस्य विशिष्टा परमातिशयं प्राप्ता भूतिरुत्पत्तिर्यदि वा विभूतियेथावत्सकलपदार्थसाक्षात्कारित्वश्रीः सैव चक्षुर्यस्य तेन । किं कुर्वता तेन चक्षुर्लब्धमित्याह । विधुन्वता। किं तत्तमः तमो ज्ञानावरणादि कर्म तत् विधुन्वता विशेषेण निराकुर्वता । कैः करैः, करा रश्मयः सम्यग्दर्शनादिलक्षणाः करा अत्र गृह्यन्ते। किंविशिष्टै ? गुणोत्करैः गुणाः स्वर्गापवर्गप्राप्तिहेतुत्वादयस्तेषामुत्करः समूहो येषां ते तैः । केनेव तमो विधुन्वता निराकुर्वता । किं तत्तमः । विराजितमित्याह । क्षपाकरेणेव क्षपां रात्रिं करोतीति क्षपाकरश्चन्द्रस्तेनेव । अथवा किं कुर्वता भगवता भूतले विरा Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy