________________
( २६३ ) के ते भवदीया गुणा येभ्यः सा समुत्था इत्याह । महावीर तीर्थकरांचे असे कोणते गुण आहेत ज्यापासून त्यांची कीर्ती उत्पन्न झाली १ य.चे उत्तर आचार्य देतात.
तव जिन ! शासनविभवो, ... जयति कलावपि गुणानुशासनविभवः । दोषकशासनविभवः,
स्तुवन्ति चैनं प्रभाकृशासनविभवः॥१३७॥ तवेत्यादि । हे जिन ! जयति सर्वोत्कर्षेण वर्द्रते । कोसौ ? शासनविभवः । शास्यन्ते व्युत्पाद्यन्ते हेयोपादेयतस्त्रं शिष्या येन तच्छासनं प्रवचनं तम्य विभवो माहात्म्यं यथावस्थिताशेषार्थप्रतिपादनल मणः । कदा ? कलावपि कलिकालेऽपि इदानीमपि इत्यर्थः । कथम्भूतः ? गुणानुशासनविभवः गुणेषु अनुशासनं येषां भव्याना ते गुणानुशासनाः शि या तेषां विगतो विनष्टो भवः संसारो यस्मात्स गुणानुशासनविभवः । न केवलं जयति किंतु स्तुवन्ति च एनं शासनविभवं । के ते ? दोषकशासनविभवः दोषा एव कशाः चर्मयष्टिकाः पीडाकरत्वात्तपां, असनं क्षेपणं निराकरणं तस्य विभव. प्रभवः समर्थाः गणधरदेवादयः । पुनरपि कथम्भूता ? प्रभाकशासनविभवः । आसते लोका यत्र तदासनं त्रिभुवनं तस्य लोकप्रसिद्धाः विभवो हरिहरादयः प्रभया ज्ञानादितेजसा कृशास्तनूकता आसनविभवो यैः । यदिवा प्रभयाऽकृशान्यासनानि येषां ते प्रभाकृशासनाः वर्द्धमानस्वामिनोऽन्ये केवलिनः इन्द्रादयो वा तेच ते विभवश्व स्वामिनः ॥
मराठी अर्थ:-हे वीर जिनेश ! आपल्या शासनाचे माहात्म्य कलिकालामध्ये देखील विजय पावते. हे जिनेश ! आपले शासन शिष्यांना हेयोपादेय तत्वांचा उपदेश करिते. पु. गलतत्व, कर्म ही टाकाऊ आहेत व जीवतत्व हेच ग्राह्य आहे.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org