________________
(३५१) मेषपटलपरिवीततटस्तव
लक्षणानि लिखितानि वजिणा ॥१२६।। वहतीति तीर्थमृषिभिश्व
सततमभिगम्यतेद्य च । प्रीतिविततहृदयैः परितो
भृशमूर्जयंत इति विश्रुतोचलः ॥१२७॥ ककुदमित्यादि । ककुंदमिव ककुदं । कस्या ? भुवः पृथिव्याः । यथा ककुदं वृषभोपरिस्कंधप्रदेशस्थं सर्वतदवयवानामुपरिवर्ति शोभाकारि च तथा ऊर्जयंताचलः सकलभूम्यवयवानामित्यर्थः । पुनरपि किंविशिष्टः इत्याह खचरेत्यादि खचरा विद्याधर्यस्तेषां योषिता विद्याधर्यस्ताभिरुषितानि सेवितानि तानि च तानि शिखराणि च तैरलंकृतः शोभितः । पुनरपि कथम्भूतः ? मेघपटलपरिवीततटः । मेघानां पटलानि तैः परि समंताद्वीतानि व्याप्तानि तटानि सानूनि यस्य । पुनरपि कथम्भूत इत्याह तवेत्यादि । तव अरिष्टनेमेः । लक्षणानि चिह्नानि । लिखितानि उत्कीर्णानि । केन ? वज्रिणा ईद्रेण । तानि वहति धरति इति हेतोः । तीर्थ पुण्यस्थानं । अतएव ऋषिभिश्च ऋषिभिरपि । सततं सर्वकालं | अभिगम्यते समाश्रीयते सेव्यते । कदा ? अद्य इदानीमपि । कथम्भूतैः ? प्रीतिविततहृदयैः प्रीत्या तुष्ट्या वित तानि विस्तीर्णानि उल्हसितानि हृदयानि येषां तैः कथं ? परितः समंतात् । अयं एतद्विशेषण विरिष्टोऽचलः पर्वतः । कथम्भूतो ? लोकविश्रुतः प्रख्यातः । कथं ऊर्जयंत इत्येवं भृशमत्यर्थम् ।
अर्थः-जसे बैलाच्या खांद्यावर असलेले वशिंड सर्व अवयवामध्ये उंच व शोभादायक असते तद्वत् तो पर्वत पृथ्वीवर
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org