________________
मोक्षपदाची माप्ति करून देबोन. अशी षकार
प्रार्थना करतात. दुरितमलकलंकमष्टक,
निरुपमयोगबलन निर्दहन् । अभवदभवसाख्यवान् भवान्,
भवतु ममापि भवोपशान्तये ॥११५॥ ". दुरितेत्याद्याह-अभवत्संजातः । कोसौ ? भवान् मुनिसुव ततीर्थकरदेवः । यथग्भूतः ? अभवसौख्यवान् । भव संसारे सौंख्यमिन्द्रियप्रभवं भवसौख्यं न भवसौख्यमभवसौख्यमतीन्द्रियं मोक्षसौख्यमित्यर्थः । तदस्यारतीति तद्वान् । किं कुर्वन्नभवसौख्यवानमवत् ! निईहन् भस्मसात कुर्वन् । किं तत् ? दुरितमलकलङ्क दुरितं कर्म तदेव मलो जीवस्वरूपप्रच्छादकत्वात् तेन कलंक आत्मन उपलपस्तं । कथम्भूतं ? अष्टकं ज्ञानावरणाद्यष्टप्रकारं । केन निर्दहन् ? निरुपमयोगबलेन योगः समाधिः शुक्लध्यानलक्षणो, निरुपमश्चासौ योगश्च तस्य बलं सामथ्यं तेन । स इत्थम्भूतो भगवान् भवतु अस्तु । किमर्थं ! भवापशांतये संसारविनाशाय । कस्य ? ममापि स्तोतुरपिं । न केवलं स्वात्मन एव ॥ .
अर्थः-आपल्या उत्कृष्ट शुक्लध्यानाच्या सामर्थ्याने जीवाचें वास्तविक स्वरूप झाकून टाकणाचा आठ कर्ममलांचा नाश करून हे मुनिसुन्नतनाथ जिनेश ! आपण अतींद्रिय मोक्षसुखाची प्राप्ति करून घेतली आहे. यास्तव हे जिनेश, माझे देखील आपण संसारदुःख दूर करा.
इति मुनिसुव्रतनाथस्तुतिः। याप्रमाणे श्री मुनिसुव्रतनाथ जिनाचे स्तवन संपले.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org