________________
(१०२)
पुष्पदन्ततीर्थकराची स्तुति.
[उपजाति छंदः] एकांतदृष्टिप्रतिषेधि तत्त्वं,
प्रमाणसिद्धं तदतत्स्वभावम् । त्वया प्रणीतं सुविधे स्वधाम्ना,
नैतत्समालीढपदं त्वदन्यैः ॥४१॥ एकांत दृष्टोत्यादि । स्वरूपेगेत्र पररूपेणापि सत्त्वमित्याद्यकांतस्तस्य दृष्टिस्तत्प्रतिपादकं दर्शनं तां प्रतिषेद्धं शीलमस्येत्येकांतदृष्टिपतिषे वि । किं तत् ! तत्त्वं जीवादिवस्तु । कथम्भूतं ! प्रमाणसिद्ध प्रत्यक्षादिप्रमाणप्रसिद्धस्वरूपं । कीदृशं तत्तत्रं यत्प्रमाणसिद्धं इत्याह तदित्यादि संश्च विवक्षितः, असंश्च अविवक्षितः तदतौ तौ स्वभावौ यस्य तत् तदतत्स्वभावं विवक्षिताविवक्षितस्वभावमित्यर्थः । यतस्तदीशं तत्वं तत एकांतदृष्टिप्रतिषेधि । केन तत्प्रतिपादितमित्याह त्वया प्र. णीतमिति । त्वया भावता प्रगीतं कथित । हे सुविधे । शोननो विधिविधानं, क्रिया , अनुष्ठानं यस्यासौ म वेधिः अन्वर्थसंज्ञेयं नवमतीर्थकरदेवस्य । केन कृत्वा तत्प्रणीतमित्याह- स्वधाम्ना स्वज्ञानतेजसा अनेन विशिष्टज्ञानपूर्वकत्वात्तचनं प्रमाणं इत्युक्तम् । अन्येऽप्येवंविधं तत्त्वं जानंति ततस्तत्प्रणीतमित्यपि कस्मान्न भवति इत्याह नेत्यादि । न एतत्तत्वं समालीढपदं । समालीढमास्त्रादितं अनुभूतं पदं स्थानं स्वरूपं यस्य । कैः त्वदन्यैः त्वत्तः सुविधेरन्यस्त्वदन्यैः त्वछासनबहिर्भूताः सुगतादयः तैः ।
__मराठी अर्थ:-हे पुष्पदंत जिनेश आपण ज्या जीवादि तत्वांचे वर्णन केले आहे ती तत्वें प्रत्यक्षादि प्रमाणांनी सिद्ध होतात. प्रत्यक्षादि प्रमाणांनी त्यांचे स्वरूप निर्बाध सिद्ध होते. व ती तत्वें एकांतदृष्टीचा प्रतिषेध-निराकरण करतात. व ती
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org