________________
प्रमेयकमलमार्तण्डे
:: :: ::
:
६९ उदगाद्भरणिः प्राक्कत एव । ७० अस्त्यत्र मातुलिङ्गे रूपं रसात् । ७१ विरुद्धतदुपलब्धिः प्रतिषेधे तथा । ७२ नास्त्यत्र शीतस्पर्श औष्ण्यात् । ७३ नास्त्यत्र शीतस्पर्टी धूमात् । ७४ नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् । ७५ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ७६ नोदगाद्भरणिर्मुहूर्तात्पूर्वं पुष्योदयात् । ७७ नास्त्यत्र भित्तो परभागाभावोऽर्वाग्भागदर्शनात् । ७८ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा खभावव्यापककार्यकारणपूर्वो
तरसहचरानुपलम्भमेदात् ।। ७९ नास्त्यत्र भूतले घटोऽनुपलब्धेः।। ८. नास्त्यत्र शिंशपा वृक्षानुपलब्धेः। ८१ नास्त्यत्राप्रतिबद्धसामोऽग्निधूमानुपलब्धः । ८२ नास्त्यत्र धूमोऽनग्नेः। ८३ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेः। ८४ नोदगाद्भरणिर्मुहूर्तात्प्राक् तत एत । ८५ नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः। ८६ विरुद्धानुपलब्धिर्विधौ त्रेधा । विरुद्धकार्यकारणस्वभावानुपलब्धिमेदात् ।। ४७ यथाऽस्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः । ८८ अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् । ८९ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः । ९० परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् । ९१ अभूदत्र चक्रे शिवकः स्थासात् । ९२ कार्यकार्यमविरुद्धकार्योपलब्धौ। ९३ नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्य • विरुद्धकार्योपलब्धौ यथा। ९४ व्युत्पन्न प्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा। ९५ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्तेधूमवत्त्वान्यथानुपपत्तेर्वा । ९६ हेतुप्रयोगो हि यथाव्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण
व्युत्पन्नैरवधार्यते । ९७ तावता च साध्यसिद्धिः । ९८ तेन पक्षस्तदाधारसूचनायोक्तः । ९९ आप्तवचनादिनिबन्धनमर्थज्ञानमागमः। १०० सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिपत्तिहेतवः । १०१ यथा मेर्वादयः सन्ति।
:
: :
: +
३९१ ४२७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org