________________
६८२
प्रमेयकमलमार्तण्डे [६. नयपरि० वा प्रस्थादिप्रतीतिः, तद्विपरीतस्याऽसतः सतो वा प्रत्येतुमशक्तेः। ऋजुसूत्राश्रयणाद्वा पर्यायमात्रस्य प्रस्थादित्वेन प्रेतीतिः, अन्यथा प्रतीत्यनुपपत्तेः । शब्दाश्रयणाद्वा कालादिभिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथातिप्रसङ्गात् । समभिरूढाश्रयणाः पर्यायभेदेन ५भिन्नस्यार्थस्य प्रस्थादित्वम् ; अन्यथाऽतिप्रसङ्गात् । एवंभूताश्रयणाा प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वं नान्यस्य' अतिप्रसङ्गोदिति । तथा स्यादुर्भयं क्रमार्पितोभयनयार्पणात् । स्यादवतव्यं सहार्पितोभयनयाश्रयणात् । एवमवक्तव्योत्तराः शेषास्त्रयो
भङ्गा यथायोगमुदाहाः। १० ननु चोदाहृता नयसप्तभङ्गी । प्रमाणसप्तभङ्गीतस्तु तस्याः कितो विशेष इति चेत् ? 'सकलविकलादेशकृतः' इति ब्रूमः। विकलादेशस्वभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात् । सकलादेशस्वभावा तु प्रमाणसप्तभङ्गी यथावद्वस्तुरूपप्ररूपकत्वात् । तथाँ हि-स्यादस्ति जीवादिवस्तु स्वद्रव्यादिचतुष्टयापे१५क्षया । स्यान्नास्ति परद्रव्यादिचतुष्टयापेक्षया । स्यादुभयं क्रमार्पि
तद्वयापेक्षया । स्यादवक्तव्यं सहार्पितद्वयापेक्षया । एवमवक्तव्यो. त्तरास्त्रयो भङ्गाः प्रतिपत्तव्याः।
कस्मात्पुनर्नयवाक्ये प्रमाणवाक्ये वा सप्तैव भङ्गाः सम्भवन्तीति चेत् ? प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात् । प्रश्नवशा२० देव हि सप्तभङ्गीनियमः । सप्तविध एव प्रश्नोपि कुत इति चेत् ? सप्तविधजिज्ञासासम्भवात् । सापि सप्तधा कुत इति चेत् ? सप्तधा संशयोत्पत्तेः। सोपि सप्तधा कथमिति चेत् ? तद्विषयवस्तुधर्मस्य सप्तविधत्वात् । तथा हि-सत्त्वं तावद्वस्तुधर्मः, तदन
भ्युपगमे वस्तुनो वस्तुत्वायोगात् खरशृङ्गवत् । तथा कथञ्चिद्२५ सत्त्वं तद्धर्म एव; स्वरूपादिभिरिव पररूपादिभिरप्यस्याऽसत्त्वा
१ सङ्कल्पमात्रस्य प्रस्थादित्वेन ज्ञातुम् । २ प्रतिषेधकल्पना स्यात् । ३ सङ्कल्पमात्रेण । ४ प्रतिषेधकल्पनेति सम्बन्धः। ५ पटादेरपि प्रस्थादित्वं स्यात् । ६ प्रतिषेधकल्पना । ७ संकल्पमात्रेण । ८ सङ्कल्पमात्रेण । ९ प्रतिषेधकल्पना। १० सङ्कल्पमात्रस्य। ११ एतावता स्यादस्ति स्यान्नास्तीति भङ्गद्वयं सिद्धम्। १२ प्रस्थादिः स्यादस्ति नास्ति च । १३ सह युगपत् । १४ अर्पितः विवक्षितः । १५ प्रस्थादिः स्यादस्त्यवक्तव्यः, स्यानास्त्यवक्तव्यः, स्यादस्तिनास्त्यवक्तव्यश्चेति । १६ कथनात्। १७ नय. प्रमाणसप्तमक्या यथाक्रमं भेदशानार्थमुल्लेखः कथ्यते स्यादस्ति स्यान्नास्तीत्यादिः । तथा च स्यादस्ति जीवादिवस्तु स्यान्नास्ति जीवादिवस्तु इत्यादि । १८ आदिना क्षेत्रकालभावग्रहः । १९ शातुमिच्छा जिज्ञासा । २० वरूपस्य । २१ परेणाङ्गीक्रियमाणे । २२ जीवादिपदार्थस्य । २३ अन्यथा ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org