________________
सू० ६१७४ ] नयविवेचनम्
६८१ कः पुनरत्र बहुविषयो नयः को वाल्पविषयः कश्चात्र कारणभूतः कार्यभूतो वेति चेत् ? 'पूर्वः पूर्वो बहुविषयः कारणभूतश्च परः परोल्पविषयः कार्यभूतश्च' इति ब्रूमः । संग्रहाद्धि नैगमो बहुविषयो भावाऽभावविषयत्वात् , यथैव हि संति सङ्कल्पस्तथाऽसत्यपि, सङ्ग्रहस्तु ततोल्पविषयः सन्मात्रगोचरत्वात् ,५ तत्पूर्वकत्वाच्च तत्कार्यः। संग्रहाद्व्यवहारोपि तत्पूर्वकः सद्विशेपावबोधकत्वादल्पविषय एव । व्यवहारात्कालत्रितयवृत्त्यर्थगो. चरात् ऋजुसूत्रोपि तत्पूर्वको वर्तमानार्थगोचरतयाल्पविषय एव । कारकादिभेदेनाऽभिन्नमर्थ प्रतिपद्यमानाजुसूत्रतः तत्पू. वैकः शब्दनयोप्यल्पविषय एव तद्विपरीतार्थगोचरत्वात् । शब्द-१० नयात्पर्यायभेदेनार्थाभेदं प्रतिपद्यमानात् तैद्विपर्ययात् तत्पूर्वकः समभिरूढोप्यल्पविषय एव । समभिरूढतश्च क्रियाभेदेनाऽभिन्नमर्थ प्रतियतःतद्विपर्ययात् तत्पूर्वक एवम्भूतोप्यल्पविषय एवेति ।
नन्वेते नयाः किमेकस्मिन्विषयेऽविशेषेण प्रवर्त्तन्ते, किंवा विशेषोस्तीति ? अत्रोच्यते-यत्रोत्तरोत्तरो नयोऽर्थाशे प्रवर्त्तते १५ तत्र पूर्वः पूर्वोपि नयो वर्त्तते एव, यथा सहस्रेऽष्टशती तस्यां वा पञ्चशतीत्यादौ पूर्वसंख्योत्तरसंख्यायामविरोधतो वर्तते । यत्र तु पूर्वः पूर्वो नयः प्रवर्तते तत्रोत्तरोत्तरो नयो न प्रवर्त्तते; पञ्च. शत्यादावऽष्टशत्यादिवत् । एवं नयार्थे प्रमाणस्यापि सांशवस्तुवेदिनो वृत्तिरविरुद्धा, न तु प्रमाणाथै नयानां वस्त्वंशमात्रवेदि-२० नामिति ।
कथं पुनर्नयसप्तभझ्याः प्रवृत्तिरिति चेत् ? 'प्रतिपर्यायं वस्तुन्येकत्राविरोधेन विधिप्रतिषेधकल्पनायाः' इति ब्रूमः। तथाहि-सङ्कल्पमात्रग्राहिणो नैगमस्याश्रयणाद्विधिकल्पना, प्रस्थादिकं कल्पनामात्रम्-'प्रस्थादि स्यादस्ति' इति । संग्रहाश्रयणात्तु प्रतिषेधक-२५ ल्पना; न प्रस्थादि सङ्कल्पमात्रम्-प्रस्थादिसन्मात्रस्य तथाप्रतीतेरसतः प्रतीतिविरोधादिति । व्यवहाराश्रयणाद्वा द्रव्यस्य पर्यायस्य
१ विद्यमाने वस्तुनि । २ अतीतेऽनागते च। ३ पर्यायभेदेन भिन्नार्थगोचरत्वादित्यर्थः। ४ प्राप्नुवतः प्रकटयतो वा। ५ उत्तरोत्तरनयविषये पूर्वपूर्वनयप्रवर्तनप्रकारेण उत्तरोत्तरसंख्यायां पूर्वपूर्वसंख्याप्रवर्तनप्रकारेण वा पञ्चशत्यादावष्टशत्याधऽप्रवतनप्रकारेण वा। ६ अविरोधेनेत्यभिधानात्प्रत्यक्षादि विरुद्धविधिप्रतिषेधकल्पनायाः, एकत्र वस्तुनीत्यभिधानादनेकवस्त्वाश्रयविधिप्रतिषेधककल्पनायाश्च सप्तमङ्गीरूपता प्रत्युक्ता। ७ विधिप्रतिषेधौ अस्तित्वनास्तित्वे। ८ संग्रहो नयः। ९ प्रस्थादित्वेन । १० गगनकुसुमवत् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org