________________
सू० ६/७४ ]
नयविवेचनम्
६७९
शब्दो नयः शब्दप्रधानत्वात् । ततोऽपास्तं वैयाकरणानां मतम् । ते हि " धातुसम्बन्धे प्रत्ययाः " [ पाणिनिव्या० ३।४।१] इति सूत्रमारभ्य 'विश्वश्वाऽस्य पुत्रो भविता' इत्यत्र कालभेदेप्येकं पदार्थमाता:-'यो विश्वं द्रक्ष्यति सोस्य पुत्रो भविता' इति, भविष्यकालेनातीतकालस्याऽभेदाभिधानात् तथा व्यवहारोपलम्भात् । ५ तच्चानुपपन्नम् ; कालभेदेप्यर्थस्याऽभेदेऽतिप्रसङ्गात्, रावणशङ्खचक्रवर्तिशब्दयोरप्यतीतानागतार्थगोचरयोरेकार्थतापत्तेः । अथानयोर्भिन्नविषयत्वान्नैकार्थता; 'विश्वदृश्वा भविता' इत्यनयोरप्यसौ मा भूत्तत एव । न खलु 'विश्वं दृष्टवान् विश्वद्दश्वा' इति शब्दस्य योऽथतीतकालः, स 'भविता' इति शब्दस्यानागतकालो १० युक्तः; पुत्रस्य भाविनोऽतीतत्वविरोधात् । अतीतकालस्याप्यनागतत्वाध्यारोपादेकार्थत्वे तु न परमार्थतः कालभेदेप्यभिन्नार्थ - व्यवस्था स्यात् ।
तथा 'करोति क्रियते' इति कर्तृकर्मकारक भेदेप्यभिन्नमर्थ ते एवाद्रियन्ते । यः करोति किञ्चित् स एव क्रियते केनचित्' इति १५ प्रतीतेः । तदप्यसाम्प्रतम् ; 'देवदत्तः कटं करोति' इत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसङ्गात् ।
तथा, 'पुष्यस्तारका' इत्यत्र लिङ्गभेदेपि नक्षत्रार्थमेकमेवाद्रियन्ते, लिङ्गमशिष्यं लोकाश्रयत्वात्तस्य; इत्यसङ्गतम् ; 'पटः कुटी' इत्यत्राप्येकत्वानुषङ्गात् ।
२०
तथा, 'आपोऽम्भः' इत्यत्र संख्याभेदेप्येकमर्थं जलाख्यं मैन्यन्ते, संख्याभेदस्याऽभेदकत्वाहुर्वादिवत् । तदप्ययुक्तम् ; 'पटस्तन्तवः' इत्यत्राप्येकत्वानुषङ्गात् ।
तथा 'एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पिता' इति साधन भेदेप्यर्थाऽभेदमाद्रियन्ते "प्रहासे मन्यवाचि युष्मन्म २५ न्यतेऽस्मदेकवच्च” [ जैनेन्द्रव्या० १।२।१५३ ] इत्यभिधानात् । तद्व्यपेशलम् ; 'अहं पचामि त्वं पचसि' इत्यत्राप्येकार्थत्वप्रसङ्गात् ।
तथा, 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रोपग्रह मे देप्यर्था भेदं प्रतिपद्यन्ते उपसर्गस्य धात्वर्थमात्रोद्योतकत्वात् । तदप्यचारु; 'सन्तिष्ठते प्रतिष्ठते' इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः ३०
१ कालादिभेदाद्भिन्नमर्थं प्रतिपादयति शब्दो नयो यतः । २ शब्दभेदादर्थभेदमकुर्वताम् । ३ प्रतिज्ञावन्तः । ४ अत एवातीतार्थको विश्वदृश्वशब्दो द्रक्ष्यतीति वर्त्स्यस्कालेन विगृह्यते । ५ वैयाकरणाः । ६ वैयाकरणाः । ७ आदिना लध्वादिग्रहः । ८ जैनेन्द्रव्याकरणस्य सूत्रम् । मूल'क' पुस्तके 'प्रहसे' इति पाठोस्ति । ९ वैयाकरणाः 1
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International