________________
६७८
प्रमेयकमलमार्तण्डे [६. नयपरि० पर्यायो वा । तथैवापरः सङ्ग्रहः सर्वद्रव्याणि 'द्रव्यम्' इति, सर्वपर्यायांश्च 'पर्यायः' इति संगृह्णाति । व्यवहारस्तु तद्विभागमभिप्रैति-यव्यं तज्जीवादि विधम् , यः पर्यायः स द्विविधः सह
भावी क्रमभावी च । इत्यपरसङ्ग्रहव्यवहारप्रपञ्चः प्रागृजुसूत्रात्प५रसङ्गहादुत्तरः प्रतिपत्तव्यः, सर्वस्य वस्तुनः कथञ्चित्सामान्यः विशेषात्मकत्वसम्भवात्। न चास्यैवं नैगमत्वानुषङ्गः; सङ्ग्रहविषयप्रविभागपरत्वात् , नैगमस्य तु गुणप्रधानभूतोभयविषयत्वात्।
यःपुनः कल्पनारोपितद्रव्यपर्यायप्रविभागमभिप्रेति स व्यवहाराभासः, प्रमाणबाधितत्वात् । न हि कल्पनारोपित एव द्रव्यादि१० प्रविभागः; स्वार्थक्रियाहेतुत्वाभावप्रसङ्गाद्गगनाम्भोजवत् । व्यवहारस्य चाऽसत्यत्वे तदानुकूल्येन प्रमाणानां प्रमाणता न स्यात् । अन्यथा स्वप्नादिविभ्रमानुकूल्येनापि तेषां तत्प्रसङ्गः। उक्तं च
"व्यवहारानुकूल्यात्तु प्रमाणानां प्रमाणता।
नान्या बाध्यमानानां ज्ञानानां तत्प्रसङ्गतः॥" [ लघी० का० १५७०] इति ।
ऋजु प्राञ्जलं वर्तमानक्षणमात्रं सूत्रंयतीत्यजुसूत्रः 'सुखक्षणः सम्प्रत्यस्ति' इत्यादि । द्रव्यस्य सतोप्यनर्पणात्, अतीतानागतक्षणयोश्च विनष्टानुत्पन्नत्वेनासम्भवात् । न चैवं लोकव्यवहारविलो. पप्रसङ्गः, नयस्याऽस्यैवं विषयमात्रप्ररूपणात् । लोकव्यवहारस्तु २० सकलनयसमूहसाध्य इति ।
यस्तु बहिरन्तर्वा द्रव्यं सर्वथा प्रतिक्षिपत्यखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः,प्रतीत्यतिक्रमात् । बाधविधुरा हि प्रत्यभिज्ञानादिप्रतीतिर्बहिरन्तश्चैकं द्रव्यं पूर्वोत्तरविवर्त्तवर्ति
प्रसाधयतीत्युक्तमूर्खतासामान्यसिद्धिप्रस्तावे। प्रतिक्षणं क्षणिकत्वं २५च तत्रैव प्रतिव्यूढमिति ।।
कालकारकलिङ्गसंख्यांसाधनोपहभेदाद्भिन्नमर्थ शपतीति १ जीवाऽजीवधर्माऽधर्मनभःकालभेदात् । २ यथा चैतन्यम् । ३ सुखादिर्यथा । ४ द्रव्यपर्यायविभिन्नत्वप्रकारेण। ५ नैगमोऽपि संग्रहनयप्रविभागपरो भविष्यतीत्युक्ते सत्याह । ६ व्यवहारानुकूल्याभावेन । ७ व्यक्तम् । ८ बोधयति । ९ शुद्धपर्यायग्राही प्रतिपक्षसापेक्ष ऋजुसूत्रः। क्षणिकैकान्तनयस्तु तदाभासः । १० क्षणः पर्यायः। ११ द्रव्यस्यातीतानागतक्षणयोश्च सूचकः कुतो न स्यादित्युक्ते सत्याह । १२ विवक्षाsभावात् । १३ सुखक्षणः सम्प्रतीत्यादिप्रकारेण। १४ निराकरोति । १५ जनैः । १६ संख्या एकवचनादिः। १७ साधनो युष्मदस्मत्स्वभेदात्रिधा। १८ उपग्रहः= उपसर्गः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org