________________
सू० ६।७३] जय-पराजयव्यवस्था णामप्यनुषङ्गः स्यात् । तेषां तंत्रान्तर्भाव वा प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति ।
"प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः” [ न्यायसू० ५।२।४] यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्यो भेदेनानुपलब्धेः । इत्यप्यसुन्दरम् । यतो हेतुना प्रतिज्ञायाःप्रतिज्ञात्वे निरस्ते प्रकारान्तरतः५ प्रतिज्ञाहानिरेवेयमुक्ता स्यात्, हेतुर्दोषो वात्र विरुद्धतालक्षणः, न प्रतिज्ञादोष इति । _ “पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यासः।" [ न्यायसू० ५।२।५] यथा 'अनित्यः शब्द ऐन्द्रियिकत्वाद् घटवत्' इत्युक्ते पूर्ववत्सामान्येनानैकान्तिकत्वे हेतोरुद्भाविते प्रतिज्ञा-१० संन्यासं करोति-क एवमाह 'नित्यः(अनित्यः)शब्दः' ? इत्यपि प्रतिज्ञाहानितो न भिधेत हेतोरनैकान्तिकत्वोपलम्भेनात्रापि प्रतिक्षायाः परित्यागाविशेषादिति ।
"अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ।” [न्यायसू० ५।२।६] निदर्शनम्-'एकप्रकृतीदं व्यक्तं विकाराणां१५ परिमाणान्मृत्पूर्वकघटशरावोदश्चनादिवत्' इत्यस्य व्यभिचारेण प्रत्यवस्थानम्-नानाप्रकृतीनामेकप्रकृतीनां दृष्टं परिमाणमित्यस्य हेतोरहेतुत्वं निश्चित्य 'एकप्रकृतिसमन्वये विकाराणां परिमाणात्' इत्याह । तदिदमविशेषोके हेतौ प्रतिषिद्धे विशेषं ब्रुवतो हेत्वन्तरं नाम निग्रहस्थानम् ।
२० इत्यप्यसुन्दरम् ; एवं सत्यविशेषोक्ते दृष्टान्तोपनयनिगमने प्रतिषिद्धे विशेषमिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुषज्येत तत्राक्षेपसमाधानानां समानत्वादिति ।
"प्रकृतादादप्रतिसम्बन्धार्थमर्थान्तरम्।" [न्यायसू०५।२।७] यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां२५
१ प्रतिशाहान्यादौ। २ यत्र प्रतिशा विरुध्यते हेतुना हेतु प्रतिशया विरुध्यते स प्रतिज्ञाविरोधः। ३ उक्तहेतौ दूषणोद्भावने स्वसाध्यपरित्यागः प्रतिशासच्यासः । ४ वादिना। ५ त्यागम्। ६ अविशेषोक्ते हेतौ व्यभिचारेण प्रतिषिद्धे पश्चादिशेषणोपादानं हेत्वन्तरम् । ७ प्रतिवादिना। ८ प्रधानम् । ९ महदादिकार्यम् । १० वस्तुमेदानाम् । ११ वादिनोक्तानुमानस्य । १२ घटमुकुटपटलकुटशकगदीनाम् । १३ एककारणानुस्यूतत्वे सतीत्यर्थः । १४ वादी । १५ दृष्टान्तायन्तरं निग्रहस्थानं न स्याच्चेद्धत्वन्तरमपि निग्रहस्थानं मा भूदिति । १६ प्रकृतप्रमेयानुपयोगिवचनमर्थान्तरं नाम निग्रहस्थानम् । १७ वस्तुधर्मावेकाधिकरणावित्यादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org