________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि०
नानां त्यागः, दृष्टान्तासाधुत्वे तेषामप्यसाधुत्वात् । तथा च 'प्रतिज्ञाहानिरेव' इत्यसङ्गतम् ।
वार्तिककारस्त्वेवमाचष्टे-"दृष्टश्चासावन्ते स्थितश्चेति दृष्टान्तः पक्षः स्वपक्षा, प्रतिदृष्टान्तः प्रतिपक्षः। प्रतिपक्षस्य धर्म स्वैपक्षेऽ५भ्यनुजानन् प्रतिज्ञां जहाति । यदि सामान्यमैन्द्रियिकं नित्यं शब्दोप्येवमस्त्विति ।" [ न्यायवा० ५।२।२]
तदेतदप्युद्योतकरस्य जाड्यमाविष्करोति; इत्थमेव प्रतिज्ञा हानेरवधारयितुमशक्यत्वात् । प्रतिपक्षसिद्धिमन्तरेण च कस्यचिनिग्रहाधिकरणत्वायोगात् । न खलु प्रतिपक्षस्य धर्म स्वपक्षेऽ. १० भ्यनुजानत एव प्रतिज्ञात्यागो येनार्यमेक एव प्रकारः प्रतिज्ञाहानौ स्यात् । अधिक्षेपादिभिराकुलीभावात् प्रकृत्या सभाभीरुत्वादऽन्यमनस्कत्वादेर्वा निमित्तात्किश्चित्साध्यत्वेन प्रतिज्ञाय तद्विपरीतं प्रतिजानतोप्युपलम्भात् पुरुषभ्रान्तेरनेककारणत्वोपपत्तेरिति ।
तथा "प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्तदर्थनिर्देशःप्रतिज्ञा१५न्तरम् ।" [न्यायसू० ५।२।३] प्रतिज्ञातार्थस्याऽनित्यः शब्द इत्या
देरैन्द्रियिकत्वाख्यस्य हेतोर्व्यभिचारोपदर्शनेन प्रतिषेधे कृते तं दोषमनुद्धरन् धर्मविकल्पं करोति 'किमयं शब्दोऽसर्वगतो घटवत् , किं वा सर्वगतः सामान्यवत्' इति । यद्यसर्वगतो घटवत्; तर्हि तद्वदेवानित्योस्त्वित्येतत्प्रतिशान्तरं नाम निग्रहस्थानं साम२०र्थ्याऽपरिज्ञानात् । स हि पूर्वस्याः अनित्यः शब्दः' इति प्रतिज्ञायाः
साधनायोत्तराम् 'असर्वगतः शब्दोऽनित्यः' इति प्रतिज्ञामाह । न च प्रतिज्ञा प्रतिज्ञान्तरसाधने समर्थाऽतिप्रसङ्गात् ।
इत्यप्येतेनैव प्रत्युक्तम् प्रतिज्ञाहानिवत्तस्याप्यनेकनिमित्तत्वोपपत्तेः। प्रतिज्ञाहानितश्चास्य कथं भेदः पक्षत्यागस्योभयत्राऽविशे२५षात् ? यथैव हि प्रतिदृष्टान्तधर्मस्य स्वदृष्टान्तेऽभ्यनुज्ञानात्पक्षत्यागस्तथा प्रतिज्ञान्तरादपि । यथा च स्वपक्षसिद्ध्यर्थ प्रतिज्ञान्तरं विधीयते तथा शब्दाऽनित्यत्वसिद्ध्यर्थम् , भ्रान्तिवशात्तद्वच्छब्दो. पि नित्योस्त्वित्यभ्यनुज्ञानम् । यथा चाभ्रान्तस्येदं विरुध्यते तथा प्रतिज्ञान्तरमपि । निमित्तभेदाच्च तद्भेदेऽनिष्टनिग्रहस्थानान्तरा
१ विचारान्ते। २ नित्यत्वलक्षणम् । ३ अनिये । ४ वादी । ५ ऐन्द्रियिकत्वाविशेषात् । ६ प्रतिपक्षस्य स्वपक्षेऽभ्युपगमनेनैव। ७ वादिनः प्रतिवादिनो वा। ८ प्रतिदृष्टान्तधर्मस्य वपक्षेभ्युपगमः। ९ अधिक्षेपस्तिरस्कारः। १० सामान्येन । ११ भेदम् । १२ वादी। १३ वादिनः। १४ ननु प्रतिशान्तरात्पक्षल्यागस्तस्य खपक्षसिमर्थ विधीयमानत्वादित्युक्ते सत्याह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org