________________
५९२
प्रमेयकमलमार्तण्डे [४. विषयपरि० यदप्युक्तम्-महदादिपरिमाणं रूपादिभ्योर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात्सुखादिवत्, तदप्ययुक्तम्; हेतोरसिद्धः, घटाद्यर्थव्यतिरेकेण महदादिपरिमाणस्याध्यक्षप्रत्ययग्राह्यत्वेनासंवेदनात् । ५ असत्यपि महदादौ प्रासादमालादिषु महदादिप्रत्ययप्रादुर्भावप्रतीतेरनैकान्तिकश्चायम् । न च यत्रैव प्रासादादौ समवेतो मालाख्यो गुणस्तत्रैव महत्त्वादिकमपि इत्येकार्थसमवायवशात् 'महती प्रासादमाला' इतिप्रत्ययोत्पत्ते नैकान्तिकत्वम्। खैसम
यविरोधात् । न खलु प्रासादो भवद्भिरवयविद्रव्यमभ्युपगम्यते १०विजातीयानां द्रव्यानारम्भकत्वात् । किं तर्हि ? संयोगात्मको गुणः । न च गुणः परिमाणवान् , “निर्गुणा गुणाः" [ ] इत्यभिधानात् । ततो मालाख्यस्य गुणस्य प्रासादादिष्वभावात् 'प्रासादमाला' इत्ययमेव प्रत्ययस्तावदयुक्तः, दूरत एव सा
'महती हवा वा' इति प्रत्ययः, मालायाः संख्यात्वेन प्रासादानां १५संयोगत्वेन महदादेश्च परिमाणत्वेन परैरभ्युपगमात् ।
अथ माला द्रव्यस्वभावेष्यते; तथापि द्रव्यस्य द्रव्याश्रयत्वानास्याः संयोगवरूपप्रासादाश्रयत्वं युक्तम् । अथासौ जातिखभावेष्यते; तर्हि प्रत्याश्रयं जातेः समवेतत्वादेकस्मिन्नपि प्रासादे 'माला' इति प्रत्ययोत्पत्तिः स्यात् । 'एका प्रासादमाला महती २० दीर्घा ह्रखा वा' इत्यादिप्रत्ययानुपपत्तिश्च तदवस्थैव; मालायां
तदाश्रये च प्रासादादावेकत्वादेर्गुणस्याऽसम्भवात् । बह्वीषु च प्रासादमालासु 'माला माला' इत्यनुगतप्रत्ययोत्पत्तिर्न स्यात्, जातावऽपरापरजातेरनुपपत्तेः। न चौपचारिकोयं प्रत्ययोऽस्ख
लवृत्तित्वात् । न हि मुख्यप्रत्ययाविशिष्टस्यौपचारिकत्वं युक्तमति२५प्रसङ्गोत् । अत एव मालादिषु महत्त्वादिप्रत्ययोपि नौपचारिकः । ततो यथा स्वकारणकलापात्प्रासादादयो महदादिरूपतयोत्पन्ना
१ गुणरूपे। २ आदिना पर्वतमालादिषु । ३ अन्यथा। ४ गुणे गुणसद्भावाभ्युपगमात् । ५ वैशेषिकैः। ६ काष्ठादीनाम् ७ प्रासादलक्षणावयविद्रव्यम् । तस्य। ८ तन्त्वादिना सजातीया ये तन्वादयस्त एव पटाद्यवयविद्रव्यारम्भका इति भावः । ९ बहुत्वलक्षणेन । १० काष्ठादिभिः। ११ वैशेषिकैः । १२ बसः। १३ एकस्मिन्नपि प्रासादे मालायाः सद्भावात् । १४ महत्त्वगुणयुक्ता । १५ द्वित्वबहुत्वादेः। १६ जातिरूपासु। १७ निस्सामान्यानि सामान्यानीति वचनात् । १८ मुख्यश्चासौ प्रत्ययश्च खण्डमुण्डादिषु गौगौरित्यादिरूपस्तेनाविशिष्टोऽनुगतत्वेन समानस्तस्य। १९ मुख्यस्याप्यौपचारिकत्वप्रसङ्गात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org