________________
सू० ४.१०] गुणपदार्थविचारः
५९१ भागो न स्यादऽनेकत्वस्याविशिष्टत्वात् तन्न ; अपेक्षाबुद्धिविशेषवत्तत्सिद्धेरप्रतिबन्धात् । यथैव ह्यनेकविषयत्वाविशेषेपि काचिदपेक्षाबुद्धिः द्वित्वस्योत्पादिका काचित्रित्वस्य । न ह्यपेक्षाबुद्धेः पूर्व द्वित्वादिगुणोस्ति, अनवस्थाप्रसङ्गात्, अपेक्षाबुद्धिजनितस्य वा द्वित्वादेरानर्थक्यानुषङ्गात् । तथा द्वित्वादिप्रत्ययविभागोपि भवि-५ ध्यति । यत एव चाभिन्नभिन्नत्वलक्षणाद्विशेषादपेक्षाबुद्धिविशेषस्तत एवैकत्वादिव्यवहारभेदोपि भविष्यति इत्यलमन्तर्गडुनैकत्वादिगुणेन।
ऎवं च गुणेष्वप्येकत्वादिव्यवहारोऽकष्टकल्पनः स्यात् । गणि. तव्यवहारश्च 'षट्पञ्चविंशतिभिः सार्ध शतम्' इत्यादिः१० सुगमः । तस्मादभिन्नं तावदेक मित्युच्यते, तदपरेणाभिन्नेन सह द्वे इति, ते त्वपरेणाभिन्नेन सह त्रीणीत्येवमादिः संमयो लोके प्रसिद्धो गणितप्रसिद्धश्चैकत्वादिव्यवहारहेतुर्द्रष्टव्य इति । . अथ द्वित्वबहुत्वसंख्याया व्यणुकादिपरिमाणं प्रत्यसमवायिकारणत्वोपपत्तेः सद्भावसिद्धिः, तन्न, अस्यास्तदसमवायिका-१५ रणत्वे प्रमाणाभावात् । परिशेषोस्तीति चेत्, न; कारणपरिमाणस्यैवासमवायिकारणत्वसम्भवादूपादिवत् । - ननु परमाणुपरिमाणजन्यत्वे व्यणुकेपि परमाणुत्वप्रसङ्गः स्यात् । तन्न; कार्यकारणयोस्तुल्यपरिमाणत्वे दृष्टान्ताभावात् । सर्वत्र हि कारणपरिमाणादधिकमेव कार्यपरिमाणं दृश्यते ।२० परिमाणवच्च कर्मण्यप्यसमवायिकारणत्वमस्याः स्यात् । दृश्यते हि द्वाभ्यां बहुभिर्वा पाषाणाधुत्थापनम् । न चात्र संख्यायाः कारणत्वं भवद्भिरिष्टम् । अथास्यास्तत्रापि निमित्तत्वमिष्यते; को वै निमित्तत्वे विप्रतिपद्यते ? सामान्यादीनामपि तदभ्युपगमात् । असमवायिकारणत्वं तु तस्याः परिमाणवदुत्थापनादि-२५ कर्मण्यभ्युपगन्तव्यम् , न चान्यत्रीपीत्यलमतिप्रसङ्गेन ।
१ उत्तरमिदम्-द्वित्वादिसंख्या प्रति करणत्वेनाभिमताया अपेक्षाबुद्धेरनेकत्वाविशेषेपि मेदो यथा तथा द्वित्वादिप्रत्ययविभागोपीति । २ अपेक्षावुद्धेः पूर्वमेव द्वित्वादिगुणोस्तीत्युक्ते सत्याह । ३ द्वित्वादिगुणस्यापि द्वित्वादिकमपरस्माद्वित्वादिगुणात्तस्याप्यपरस्मादिति । ४ भिन्नाभिन्नत्वलक्षणाद्विशेषादेकत्वादिभवनप्रकारेण । ५ संख्येयात् । ६ एकेन । ७ अपरसंख्येयात् । ८ सङ्केतः। ९ दयणुकादिपरिमाणमसमवायिकारणकं सद्रूपकार्यत्वाद्धटवदित्यनुमानम् । १० कारणरूपादेर्यथा कार्यरूपादिकं प्रत्यसमवायिकारणत्वम् । ११ द्वयणुकादिपरिमाणस्य । १२ परमाणुपरिमाणस्वरूपवत् । १३ पाषाणाधुत्थापनलक्षणे। १४ नराभ्याम् । १५ परैः। १६ विवादं करोति । १७ पुरुषत्वादीनाम् । १८ अभ्युपगन्तव्यं नेति सम्बन्धः । १९ परिमाणे। २० संख्यायाः परिमाणं प्रत्यसमवायिकारणत्वनिराकरणेन ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org