________________
५६६
प्रमेयकमलमार्तण्डे [४. विषयपरि० ननु चैकत्वेपि कालस्योपाधिभेदाझेदोपपत्तेर्न यौगपद्यादिप्रत्ययाभावः। तदुक्तम्-"मणिवत्पाचकवद्वोपाधिभेदात्कालभेदः"
] इति; तदप्ययुक्तम् ; यतोऽत्रोपाधिमेदः कार्यभेद एव । स च 'युगपत्कृतम्' इत्यत्राप्यस्त्येवेति किमित्य५युगपत्प्रत्ययो न स्यात् ? अथ क्रमभावी कार्यभेदः कालभेव्यवहारहेतुः । ननु कोस्य क्रमभावः? युगपदनुत्पादश्चेत् ; 'युगपदनुत्पादः' इत्यस्य भाषितस्य कोर्थः ? एकस्मिन्कालेऽनुत्पादः, सोयमितरेतराश्रयः-यावद्धि कालस्य भेदो न सिद्ध्यति न ताव
कार्याणां भिन्नकालोत्पादलक्षणः क्रमः सिध्यति, यावच्च कार्याणां १० क्रमभावो न सिध्यति न तावत्कालस्योपाधिभेदानेदः सिध्यतीति।
ततः प्रतिक्षणं क्षणपर्यायः कालो भिन्नस्तत्समुदायात्मको लवनिमेषादिकालश्च । तथा चैककालमिदं चिरोत्पन्नमनन्तरोत्पन्नमित्येवमादिव्यवहारः स्यादुपपन्नो नान्यथा ।
- एतेन परापरव्यतिकरः कालैकत्वे प्रत्युक्तः, तथाहि-भूम्यवय१५वैरालोकावयवैर्वा बहुभिरन्तरितं वस्तु विप्रकृष्टं परमिति चोच्यते
खल्पैस्त्वन्तरितं सन्निकृष्टमपरमिति च । तथा बहुभिः क्षणैरहोरात्रादिभिर्वान्तरितं विप्रकृष्टं परमिति चोच्यते स्वल्पैस्त्वन्तरितं सन्निकृष्टमपरमिति च । बह्वल्पभावश्च गुरुत्वपरिमाणादिवदपेक्षा. निबन्धनः कालैकत्वे दुर्घट इति । २० योगपद्यादिप्रत्ययाविशेषात् कालस्यैकत्वे च गुरुत्वपरिमाणीदेरप्येकत्वप्रसङ्गस्तुल्याक्षेपसमाधानत्वात् । ततो गुरुत्वपरिमाणादेरनेकगुणरूपतावत्कालस्यानेकद्रव्यरूपताभ्युपगन्तव्यो। ये तु वास्तवं कालद्रव्यं नाभ्युपगच्छन्ति तेषां परापरयोगपद्या
१ यथा स्फटिकमणौ पावके च यथाक्रमं जपाकुसुमादिखादिरादिलक्षणोपाधिभेदाढ़ेदस्तथा कार्यलक्षणोपाधिभेदाद्भेदः कालस्यापीत्यर्थः, ततश्च व्यतिकरो न स्यादिति भावः। २ कालक्रमेणोत्पाद इत्यर्थः। ३ कालस्यैकत्वे यौगपद्याभावो यतः। ४ बसः । ५ विपर्ययः । ६ कालस्य । ७ अस्मादयं गुरुरस्मालघुरिति व्यवहारो वस्तुन एकत्वे दुर्घटो यथा। ८ स्वपरापेक्षा । ९ गुरुत्वादिप्रत्ययाविशेषात् । १० अल्पपरिमाणस्यापि । ११ गुरुत्वपरिमाणमल्पत्वपरिमाणं च प्रतिपदार्थ भिद्यत इत्याक्षेपः, समाधान-तर्हि योगपद्यादिप्रत्ययोपि प्रतिपदार्थ भिद्यते इति समानम् । १२ नित्यनिरंशकद्रव्यरूपत्वे चार्थानां भूतभविष्यद्वर्तमानत्वं दुर्घटमतीतानागतवर्तमानकालभेदाभावात् , सिद्धे हि तद्भेदे तत्सम्बन्धादर्थानां तथा व्यपदेशः स्यान्नान्यथातिप्रसङ्गात् । न चास्य तत्सिद्धिर्घटते नित्यनिरंशैकरूपत्वात् । यदेवंविधं न तत्रातीतादिस्वरूपभेदाः । यथा परमाणौ । नित्यनिरंशकरूपश्च भवद्भिः परिकल्पितः कालः। १३ मीमांसकसौगतद्राविडाः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org