________________
सू० ४।१०] कालद्रव्यवादः स च मुख्यः कालोऽनेकद्रव्यम् , प्रत्याकाशप्रदेश व्यवहारकालभेदान्यथानुपपत्तेः । प्रत्याकाशप्रदेशं विभिन्नो हि व्यवहारकाल: कुरुक्षेत्रलङ्काकाशदेशयोर्दिवसादिभेदान्यथानुपपत्तेः। ततः प्रतिलोकाकाशप्रदेशं कालस्याणुरूपतया भेदसिद्धिः। तदुक्तम्
"लोयायासपएसे एकेके जे ट्ठिया हु एकेका। रयणाणं रासीविव ते कालाणू मुणेयब्बा ॥१॥"
[द्रव्यसं० गा० २२ (१)] योगपद्यादिप्रत्ययाविशेषात्तस्यैकत्वम् ; इत्यप्यसत्; तत्प्रत्यया. विशेषासिद्धेः। तेषां परस्परं विशिष्टत्वात्कालस्याप्यतो विशिष्टत्व-१० सिद्धिः। सहकारिणामेव विशिष्टत्वं न कालस्य; इत्यप्यनुत्तरम् ; खरूपमभेदयतां सहकारित्वप्रतिक्षेपात् ।
यदि चास्य निरवयवैकद्रव्यरूपताभ्युपगम्यते कथं तबती. तादिकालव्यवहारः? स हि किमतीताद्यर्थक्रियासम्बन्धात्, खतो वा स्यात् ? अतीताद्यर्थक्रियासम्बन्धाच्चेत्, कुतस्तासाम-१५ तीतादित्वम् ? अपरातीताद्यर्थक्रियासम्बन्धाञ्चेत्, अनवस्था । अतीतादिकालसम्बन्धाञ्चेत्; अन्योन्याश्रयः। खतस्तस्यातीतादिरूपता चायुक्ता, निरंशत्वभेदरूपत्वयोर्विरोधात् ।
योगपद्यादिप्रत्ययाभावश्चैवंवादिनः स्यात्। तथाहि-यत्कार्यजातमेकस्मिन्काले कृतं तद्युगपत्कृतमित्युच्यते । कालैकत्वे चाखि-२० लकार्याणामेककालोत्पाद्यत्वेनैकदैवोत्पत्तिप्रसङ्गान्न किश्चिदयुगपत्कृतं स्यात् ।
चिरक्षिप्रव्यवहाराभावश्चैवंवादिनः । यत्खलु बहुना कालेन कृतं तच्चिरेण कृतम् । यच्च स्वल्पेन कृतं तत्क्षिप्रं कृतमित्युच्यते । तच्चैतदुभयं कालैकत्वे दुर्घटम् ।
१ कालपरमाणुलक्षणम् । २ मुख्यकालद्रव्यानेकत्वाभावे । ३ हेतुरसिद्ध इत्युक्ते सत्याह। ४ चन्द्रार्का दिदक्षिणायनोत्तरायणयोः सतोः। ५ लोकाकाशप्रदेशे एकैके ये स्थिताः खलु एकैके । रत्नानां राशिरिव ते कालाणवो ज्ञातव्याः । ६ सिद्धे हि क्रियाणामतीतादित्वे तत्सम्बन्धात्कालस्यातीतादित्वसिद्धिस्तत्सिद्धौ च तत्सम्बन्धात्तासां तत्सिद्धिरिति । ७ निरंशस्य कालस्यातीतत्ववर्तमानत्वभविष्यत्वलक्षणधर्माणां सद्भावो न घटते इति भावः। ८ कार्यसमूहः । ९ कालस्य नित्यैकत्वादिरूपत्वे । १० अयोगपद्याभावे तदपेक्षया जायमानस्य यौगपद्यस्याप्यभाव इति भावः ।
प्र.क० मा०४८ Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org