________________
प्रमेयकमलमार्त्तण्डे
[ ४. विषयपरि०
५५६
वाभिलाषेत्वात् 'आत्मनोनुकूलेष्वनुकूलाभिमानजनिताभिलाषवत्' इत्यस्यै च विरोधः, यस्माद्योऽसौ परस्यानुकूलेष्वनुकूलाभिमानजनिताभिलाषजनित आत्मविशेषगुणो नासावभिलषितुरर्थाभिमुखक्रियाकारणम्, तत्समानस्य तत्कारणत्वात् यचे ५ तत्क्रियाकारणं नासौ यथोक्ताभिलाषजनित इति ।
"
'इच्छाद्वेषनिमित्तौ प्रवर्त्तकनिवर्त्तको धर्माधर्मों, अव्यवधानेन हिताहितविषयप्राप्तिपरिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वात् प्रवर्त्तक निवर्त्तकप्रयत्नवत्' इत्यत्र हेतोर्व्यभिचारश्च - जन्मान्तरफलोदययोर्धर्माधर्मयोः अव्यवधानेन हिताहित१० विषयप्राप्तिपरिहारहेतोः कर्मणः कारणत्वे सत्यात्मविशेषगुणत्वेपीच्छाद्वेषजनितत्वाभावात् । ततः शब्दाच्छन्दोत्पत्तिवद्धर्मादेधर्माद्युत्पत्त्यभावात् । क्षणिकत्वे चातो जन्मान्तरे फलासम्भ वादक्षणिकत्वं तस्याभ्युपगन्तव्यमित्यनेनानैकान्तिको हेतुः ।
अथास्मदादिप्रत्यक्षत्वविशेषणविशिष्टस्य विभुद्रव्यविशेषगुण१५ त्वस्यासम्भवान्न व्यभिचारः । ननु मा भूयभिचारः, तथापि साकल्येन हेतोर्विपक्षाद्व्यावृत्त्यसिद्धिः । विपक्षविरुद्धं हि विशेषण ततो हेतुं निवर्त्तयति । यथा सहेतुत्वमहेतुकत्वविरुद्धं ततः
હ
२७
१. सामान्यं हेतुं ब्रुवतां दोषाभावात् । २ जीवस्य स्वस्य वा । ३ वस्त्रादिषु स्रक्चन्दनादिषु च । ४ अनुमानस्य । ५ धर्मादेर्धर्माद्युत्पत्तौ सत्याम् । ६ धर्मलक्षणः । ७ अनुष्ठातुर्वैशेषिकस्य । ८ परापरोत्पत्त्या तस्मादन्यत्वात् । ९ अन्त्यो धर्मः । १० इच्छाद्वेषौ निमित्तं कारणं ययोर्धर्माधर्मयोरिति भावः । ११ कार्यस्य निष्पादकानिष्पादकौ । १२ कारणत्वादित्युच्यमाने चक्षुरादिना व्यभिचारस्तन्निवृत्त्यर्थमात्मविशेषगुणत्वादित्युक्तम्, तावत्युक्ते सुखादिनानेकान्तस्तत्परिहारार्थं कर्मणः कारण सतीति विशेषणम्, तावत्युक्ते बुद्ध्यादिनानेकान्तस्तन्निरासार्थं हिताहितविषयप्राप्तिपरिहार हेतोरित्युपात्तम्, तावत्युक्ते इच्छाद्वेषाभ्यामने कान्तत्वन्निरासार्थमव्यवधानेनेति विशेषणमुपादीयते । १३ धर्माद्धितविषयप्रात्यहितविषयपरिहारौ भवतः, अधर्मादहितविषयप्राप्तिहितविषयपरिहारौ स्त इति सम्बन्धः । १४ धर्माधर्मयोः । १५ अनुमाने । १६ धर्मादेः क्षणिकत्वे । १७ पूर्वधर्माधर्मसदृशयोः । १८ धर्मादेः क्षणिकत्वे साध्ये | १९ धर्मादेः क्षणिकत्वाभावात् । २० अस्मदादिप्रत्यक्षत्वे सतीति विशेषणं त्यक्त्वा बिभुद्रव्यविशेषगुणत्वादित्ययं हेतुः । २१ व्यभिचारपरिहारार्थम् । २२ साधनस्य । २३ धर्मादौ । २४ शब्दे यथा सम्भवस्तथा धर्मादौ नास्ति यतः । २५ अक्षणिका । २६ कथम् ? तथा हि । २७ हेतोर्विपक्षे वृत्तिं वारयति यत्तदेव हेतुविशेषणम् ॥ २८ अनित्यः शब्दः कादाचित्कत्वाद् घटवदित्युक्ते खननोत्सेचनादिना कादाचित्केन नभसानैकान्तिकत्वम्, तद्वयवच्छेदार्थं सहेतुकत्वे सति कादाचित्कत्वादिति साधनं प्रयोक्तव्यम् । २९ विशेषणम् । ३० अहेतुकम् = आकाशादि ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org