________________
सू० ४।१०] आकाशद्रव्यविचारः
५५५ भासत्वादस्यानुमानं बाधकम्, यथा स्थिरचन्द्रार्कादिविज्ञानस्य देशान्तरप्राप्तिलिङ्गजनितं गत्यनुमानम् कथं पुनरस्याध्यक्षाभासत्वम् ? अनुमानेन बाधनाञ्चेत् । अनेनानुमानस्य बाधनादनुमानाभासता किन्न स्यात् ? अथानुमानबाधितविषयत्वान्नेदमनुमानस्य बाधकम् । अनुमानमप्येतद्वाधितविषयत्वान्नास्य बाधकं स्यात् । न ५ च तदनुमानमस्ति। , नन्विदमस्ति-क्षणिकःशब्दोऽस्मदादिप्रत्यक्षेत्वे सति विभुद्रव्यविशेषगुणत्वात् सुखादिवत् । सत्यमस्ति, किन्त्वेकशाखाप्रभवत्ववदेतत्साधनं प्रत्यभिज्ञाप्रत्यक्षबाधितकर्म निर्देशानन्तरं प्रयुक्तत्वान्न साध्यसिद्धिनिबन्धनम् । विभुद्रव्यविशेषगुणत्वं चासिद्धम् । १० शब्दस्य द्रव्यत्वप्रसाधनात् । धर्मादिना व्यभिचारश्च अस्य विभुद्रव्यविशेषगुणत्वेपि क्षणिकेत्वाभावात् । तस्यापि पक्षीकरणादव्यभिचारे न कश्चिद्धतुर्व्यभिचारी, सर्वत्र व्यभिचारविषयस्य पक्षीकरणात् । 'अस्सदादिप्रत्यक्षत्वे सति' इति च विशेषणमनर्थकम्; व्यवच्छेद्याभावात् । धर्मादेश्व क्षणिकत्वे खोत्पत्तिसमया-१५ नन्तरमेव विनष्टत्वात्ततो जन्मान्तरे फलं न स्यात् । ' शब्दाच्छन्दोत्पत्तिवद्धर्मादेर्धर्माद्युत्पत्तिः, इत्यप्ययुक्तम् । तथाभ्युपगमाभावात्, तद्वदपरापरतत्कार्योत्पत्तिप्रसंगाच । 'परस्याक्लेष्वनुकूलाभिमानजनितोभिलाषः अभिलषितुर्थाभिमुखक्रियाकारणमात्मविशेषगुणमाराधोति अनुकूलेष्वनुकूलाभिमानजनि-२०
. १ शन्दैकत्वविषयस्याध्यक्षस्य । २ शब्दस्य क्षणिकत्वसाधकेन। ३ एतेन= मानसप्रत्यक्षेण । ४ शब्दक्षणिकत्वानुमानम्। ५ परममहापरिमाणेन व्यभिचारपरिहारार्थमिदं विशेषणम् । ६ विभु आकाशमात्मा च। ७ घटादिगतरूपादिना व्यभिचारनिरासार्थ विशेषेति। ८ उपहासे । ९ कर्म-प्रतिशा। १० प्रत्यभिशाप्रत्यक्षेण पूर्व शब्दस्याक्षणिकत्वं साधितं यतः। ११ विभुद्रव्यविशेषगुणत्वादित्येवोच्यमाने । १२ क्षणिकत्वं साध्यम् । १३ अनेकान्तपरिहाराय, पक्षान्तःपातित्वाद्धर्मादेः क्षणिकत्वमायातमिति भावः। १४ व्यवच्छेद्यफलं हि विशेषणमिति वचनात् । १५ असदादिप्रत्यक्षत्वे सतीति विशेषणेन किलासदायऽप्रत्यक्षो धर्मादिर्व्यवच्छेद्यः, तस्यापि पक्षीकरणे व्यवच्छेद्यमस्य विशेषणस्य नास्तीति भावः, सर्वेषां पक्षीकरणाविशेषणेन परिहरणीयस्याभावात् । १६ परेण । १७ धर्माधर्मयोः क्षणिकत्वे । १८ अस्तु, न चैवम्, न खलु धर्माद्युत्पत्तिवदपरापरवनिताद्यगाद्युत्पत्तिः प्रतीयते । १९ प्रकृतसाध्ये हेवन्तरमिदम् । २० अनुष्ठातुर्वैशेषिकस्य । २१ इज्यायागादिपूजादिषु धर्मोत्पादनकारणभूतेषु । २२ धर्मजनकत्वेन। २३ इमान्यनुकूलानीत्यभिमानस्तेन जनितः । २४ अर्थ-स्रक्चन्दनादिकं प्रति। २५ क्रिया कार्यम् । २६ उत्तरजन्मनि । २७ धर्मलक्षणं दृष्टान्तपक्षे प्रयत्नलक्षणं च । २८ उत्पादयति, साधयति । .. .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org