________________
सू० ४।१०] अर्थस्य सामान्यविशेषात्मकत्वम् ५३१
यञ्चोक्तम्-'पटस्य भावः' इत्यभेदे' षष्ठी न प्राप्नोतीति; तदप्यप्रयुक्तम् । 'षण्णां पदार्थानामस्तित्वम्, षण्णां पदार्थानां वैर्गः' इत्यादी भेदाभावेपि षष्ठयाद्युत्पत्तिप्रतीतेः । न हि भवता षट्पदार्थव्यतिरिक्तमस्तित्वादीष्यते । ननु सतो ज्ञापकप्रमाणविषयस्य भावः सत्त्वम्-सदुपलम्भकप्रमाणविषयत्वं नाम धर्मान्तरं५ षण्णामस्तित्वमिष्यते, अंतो नानेनानेकान्तः, तदसत्; षट्पदार्थसंख्याव्याघातानुषङ्गात् , तस्य तेभ्योन्यत्वात् । ननु धर्मिरूपा एव ये भावास्ते षट्पदार्थाः प्रोक्ताः, धर्मरूपास्तु तद्व्यतिरिक्ता इष्टी एव । तथा च पदार्थप्रवेशकग्रन्थः-"एवं धर्मविना धर्मिणामेव निर्देशः कृतः” [प्रशस्तपादभा० पृ० १५] इति। १० __ अस्त्वेवं तथाप्यस्तित्वादेर्धर्मस्य षट्पदार्थैः सार्धं कः सम्बन्धो येन तत्तेषां धर्मः स्यात्-संयोगः, समवायो वा ? न तावत्संयोगः; अस्य गुणत्वेन द्रव्याश्रयत्वात् । नापि समवायः; तस्यैकत्वेनेष्टत्वात्। सैमवायेन चास्य समवायसम्बन्धे समायानेकत्वप्रसङ्गः। सम्बन्धमन्तरेण धर्मधर्मिभावाभ्युपगमे चातिप्रसङ्गः ।१५
किञ्च, अस्तित्वादेरपरास्तित्वाभावात्कथं तंत्र व्यतिरेकनिवन्धना विभक्तिर्भवेत् ? अथ तत्राप्यपरमस्तित्वमङ्गीक्रियते तदानवस्था स्यात् । उत्तरोत्तरधर्मसमावेशेन च सत्त्वादेर्धर्मिरूपत्वानुषङ्गात् 'षडेव धर्मिणः' इत्यस्य व्याघातः। ये धर्मिरूपा एव ते षट्केनावधारिताः' इत्यप्यसारम् ; एवं हि गुणकर्मसामान्यविशेष-२० समवायानामनिर्देशः स्यात् । न ह्येषां धर्मिरूपत्वमेव द्रव्याश्रितत्वेन धर्मरूपत्वस्यापि सम्भवात् ।
१ सामान्यविशेषयोः । तन्तुपटादीनाम् । २ षट् पदार्था एव समूहः । ३ वस्तुनः । ४ तदेव । ५ षट्पदार्थेभ्यो भिन्नम् । ६ धर्मिधर्मरूपयोः षट्पदार्थास्तित्वयोः सर्वथा भेदाभेदसद्भावात् । ७ यत्र षष्ठीतद्धितोत्पत्तिस्तत्रात्यन्तिको भेद इत्यस्य । ८ सप्तमपदार्थापत्तः। ९ अस्तित्वादयः। १० मम वैशेषिकस्य । ११ धर्मिभ्यो धर्माणां व्यतिरिक्तान्वेषणप्रकारेण । १२ श्रूयते । १३ परेण । १४ अन्यथेति शेषः । १५ समवायपदार्थेस्तित्वेन भाव्यं तत्त तत्रापरसमवायपदार्थेन कृत्वा वर्तते । एवं तस्यानेकत्वापत्तिर्भवेत् । १६ गगनकुसुमायस्तित्वाद्योधर्मिधर्मभावः स्यादित्यतिप्रसङ्गः । १७ यत्र षष्ठी विभक्तिस्तत्रात्यन्तभेद इत्यस्मिन्पक्षेऽनैकान्तिकं दूषणमुद्भावयति जैनः । १८ सामान्यस्य । १९ सत्ताया अस्तित्वं गोत्वादेरस्तित्वमित्यत्र। २० अनेकान्तदोषपरिहाराय परेण । २१ अपरापरास्तित्वसद्भावात् । २२ दूषणान्तरम् । २३ पूर्वस्य पूर्वस्य । २४ अर्थात्-एकस्यैव द्रव्यस्य निर्देशः स्यात् ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org