________________
५३०
प्रमेयकमलमार्तण्डे
[४. विषयपरि०
विरुद्धधर्माध्यासोपि धूमादिनानैकान्तिकत्वान्नावयवावयवि. नोरात्यन्तिकं भेदं प्रसाधयति । न खलु स्वसाध्येतरयोर्गमकत्वागमकत्वलक्षणविरुद्धधर्माध्यासेपि धूमो भिद्यते । नन्वत्रापि सामग्रीभेदोस्त्येव-धूमस्य हि पक्षधर्मत्वादिकारणोपचितस्य ५स्वसाध्यं प्रति गमेकत्वम् , तद्विपरीतकारणोपचितस्य सामग्र्यन्तरत्वात्साध्यान्तरेऽगमकत्वम्, न त्वेकस्यैव गमकत्वागम. कत्वं सम्भवति; इत्यप्यन्धसर्प बिलप्रवेशन्यायेनानेकान्तावलम्बनम्, धूमस्याभिन्नत्वात् । य एव हि धूमोऽविनाभावसम्बन्धस्मरणादिकारणोपचितो वन्हि प्रति गमकः स एव साध्याः १०न्तरेऽगमक इति । अथान्यः स्वसाध्यं प्रति गमकोऽन्यश्चान्यत्रागम
कः, तर्हि यो गमको धूमस्तस्य खसाध्यवत्साध्यान्तरेपि सामर्थ्यादेकस्मादेव धूमानिखिलसाध्यसिद्धिप्रसङ्गाद्धत्वन्तरोपन्यासो व्यर्थः स्यात् ।
किञ्च, अतोऽप्राप्तपटावस्थेभ्यः प्राक्तनावस्थाविशिष्टेभ्यस्त१५न्तुभ्यः पटस्य भेदः साध्येत, पटावस्थाभाविभ्यो वा ? प्रथमपक्षे सिद्धसाध्यता, पूर्वात्तरावस्थयोः सकलभावानां भेदाभ्युपगमोत्। न खलु यैवार्थस्य पूर्वावस्था सवोत्तरावस्था पूर्वाकारपरित्यागेनैवोत्तराकारोत्पत्तिप्रतीतेः । द्वितीयपक्षे तु हेतूनामसिद्धिः, न
खलु पटावस्थाभावितन्तुभ्यः पटस्य भेदाप्रसिद्धौ विरुद्धधर्मा२. ध्यासविभिन्नकर्तृकत्वादयो धर्माः सिद्धिमासादयन्ति । कालात्ययापदिष्टत्वं चैतेषाम् ; आतानवितानीभूततन्तुव्यतिरेकेणार्थान्तरभूतस्य पटस्याध्यक्षेणानुपलब्धेस्तेन भेदपक्षस्य बाधितत्वात् ।
'तन्तवः पटः' इति संज्ञाभेदोप्यवस्थाभेदनिबन्धनो न पुनईव्यान्तरनिमित्तः। योषिदादिकरव्यापारोत्पन्ना हि तन्तवः कुवि२५न्दादिव्यापारात्पूर्व शीतापनोदाद्यर्थासमर्थास्तन्तुव्यपदेशं लभन्ते,
तद्व्यापारातूत्तरकालं विशिष्टावस्थाप्राप्तास्तत्समर्थाः पटव्यपदेशमिति।
विभिन्नशक्तिकत्वाद्युप्यवस्थाभेदमेव तन्तूनां प्रसाधयति न त्ववयवावयवित्वेनात्यन्तिकं भेदम् ।
१ हेतुः। २ चक्षुरादिना च। ३ ययोविरुद्धधर्माध्यासस्तयोरात्यन्तिको भेद इत्यनुमाने। ४ उक्तमेव समर्थयन्ति । ५ महानसादौ । ६ जलादौ । ७ आदिना पक्षधर्मत्वादिग्रहणन् । ८ विरुद्धधर्माध्यासात् । ९ जैनैः। १० स्वात्मोपलब्धिम् । ११ विरुद्धधर्माध्यासादयो यदि भेदप्रसाधका न भवेयुस्तदा कथं संशाभेदो भविष्यतीत्याह । १२ साधनम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org