________________
सू० ४।६] क्षणभङ्गवादः
४९९ 'क्षणिकतापरिहारेण ह्यक्षणिकता व्यवस्थिता तत्परिहारेण च क्षणिकता' इत्यनयोः परस्परपरिहारस्थितिलक्षणो विरोधः । न चार्थक्रियालक्षणसत्त्वस्य क्षणिकतया व्याप्तत्वान्नित्येन विरोध, अन्योन्याश्रयानुषङ्गात्-अर्थक्रियालक्षणं सत्त्वं क्षणिकतया व्याप्तं नित्यताविरोधासिध्यति, सोप्यस्य क्षणिकतया व्याप्तेरिति। ५
ननु च अर्थक्रियायाः क्रमयोगपद्याभ्यां व्याप्तत्वात्तयोश्चाक्षणिकेऽसम्भवात्कुतः क्रमवत्यऽर्थक्रिया नित्ये सम्भविनी? न च सहकारिक्रमान्नित्ये क्रमवत्यप्यसौ सम्भवति; अस्योपकारकानुपकारकपक्षयोः सहकार्यऽपेक्षाया एवासम्भवात् । नापि योगपद्ये. नासौ नित्ये सम्भवति; पूर्वोत्तरकार्ययोरेकक्षण एवोत्पत्तेर्द्वितीय-१० क्षणे तस्यानर्थक्रियाकारित्वेनावस्तुत्वप्रसङ्गात्, इत्यप्यसारम् । एकान्त नित्यवदऽनित्येपि क्रमाक्रमाभ्यामर्थक्रियाऽसम्भवात्, तस्याः कथञ्चिन्नित्ये एव सम्भवात् , तत्र क्रमाक्रमवृत्त्यनेकखभावत्वप्रसिद्धः, अन्यत्र तु तत्स्वभावत्वाप्रसिद्धः पूर्वापरस्वभावत्यागोपादानान्वितरूपाभावात्, सकृदनेकशक्त्यात्मकत्वाभावाञ्च । न १५ खलु कूटस्थेथे पूर्वोत्तरस्वभावत्यागोपादाने स्तः, क्षणिके चान्वितं रूपमस्ति, यतः क्रमः कालकृतो देशकृतो वा । नापि युगपदनेकस्वभावत्वं यतो यौनपद्यं स्यात्, कौटस्थ्यविरोधान्निरन्वयविनार्शित्वव्याघाताच्च।
किञ्च, क्षणिकं वस्तु विनष्टं सत्कार्यमुत्पादयति, अविनष्टम् ,२० उभयरूपम् , अनुभयरूपं वा? न तावद्विनष्टम् ; चिरतरनष्टस्येवा. नन्तरनष्टस्याप्यसत्त्वेन जनकत्वविरोधात् । नाप्यविनष्टम्; क्षणभङ्गभङ्गप्रसङ्गात् सकलशून्यतानुषङ्गाद्वा, सकलकार्याणामेकदैवोत्पद्य विनाशात् । नाप्युभयरूपम् ; निरंशैकखभावस्य विरुद्धोभयरूपासम्भवात् । नाप्यनुभयरूपम् ; अन्योन्यव्यवच्छेदरूपाणामेक-२५ निषेधस्यापरविधाननान्तरीयकत्वेनानुभयरूपत्वायोगात् ।
कथं च निरन्वयनाशित्वे कारणस्योपादानसहकारित्वस्य व्यवस्था तत्स्वरूपापरिज्ञानात् ? उपादानकारणस्य हि स्वरूपं किं
१ न तु सत्त्वाक्षणिकत्वयोः। २ प्रथमभेदे बाध्यबाधकभावेन विरोधः । द्वितीयमेदे तु स्वभावेनैव-यत्र क्षणिकत्वं तत्र न सत्त्वमिति विरोधः । ३ द्रव्यत्वेन । ४ सर्वथा क्षणिके। ५ अवस्थितस्य पदार्थस्यैकस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्च । ६ नित्यक्षणिकाभ्यां कृतानां कार्याणाम् । ७ एकानेकात्मकत्वप्रसक्तेः । ८ क्षणिकत्व । ९ युगपदनेकस्वभावत्ववत् क्रमेणापि तथा प्राप्तः । १० द्वितीयक्षणे कार्याजनकत्वात् । ११ अविनाभूतत्वेन । १२ एकं कार्य प्रत्युपादानत्वमपरं प्रति सहकारित्वमिति । १३ जैनो बौद्धं प्रति वक्ति। १४ बौद्धमते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org