________________
४९८
प्रमेयकमलमार्तण्डे [४. विषयपरि० रंसाद्रूपानुमानं न स्यात् । 'तथा दृष्टत्वान्न दोषः' इत्यन्यत्रापि समानम् , विद्युच्छब्दादेरपि विधुच्छब्दाद्यन्तरोपलम्भात्।।
न चैकत्र सत्त्वक्षणिकत्वयोः सहभावोपलम्भात्सर्वत्र ततस्तदनुमानं युक्तम् ; अन्यथा सुवर्णे सत्त्वादेव शुक्लतानुमितिप्रसङ्गा, ५शुक्ले शङ्ख शुक्लतया तत्सहभावोपलम्भात् । अथ सुवर्णाकार नि सिप्रत्यक्षेण शुक्लतानुमानस्य बाधितत्वान्न तत्र शुक्लता. सिद्धिः; तर्हि घटादौ क्षणिकतानुमानस्य ‘स एवायम्' इत्येकत्व प्रतिभासेन बाधितत्वात्प्रतिक्षणविनाशितासिद्धिर्न स्यात् ।
अथैकत्वप्रत्यभिज्ञा भिन्नेष्वपि लूनपुनर्जातनखकेशादिष्वभेद१० मुल्लिखन्ती प्रतीयत इत्येकत्वे नाऽसौ प्रमाणम्। नन्वेवं काम
लोपहताक्षाणां धवलिमामाबिभ्राणेष्वपि पदार्थेषु पीताकारनिर्मासिप्रत्यक्षमुदेतीति सत्यपीताकारेपि न तत्प्रमाणम् । भ्रान्तादभ्रान्तस्य विशेषोन्यत्रापि समानः । प्रसाधितं च प्रत्यभिज्ञानस्याभ्रान्तत्वं प्रौगित्यलमतिप्रसङ्गेन । १५ अथ विपक्षे बांधकप्रमाणबलात्सत्त्वक्षणिकत्वयोरविनाभावोव
गम्यते । ननु तत्र सत्वस्य बाधकं प्रत्यक्षम् , अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम्। तत्र क्षणिकत्वस्याप्रतिभासनात् । न चाप्रति भासमानक्षणक्षयखरूपं प्रत्यक्षं विपक्षाव्यावर्त्य सत्त्वं क्षणिकत्वनियतमादर्शयितुं समर्थम् । अथानुमानेन तत्ततो व्यावर्त्य क्षणि२० कनियततया साध्येत; ननु तदनुमानेप्यविनाभावस्यानुमानबलात्प्रसिद्धिः, तथा चानवस्था। न च तद्बाधकमनुमानमस्ति।
ननु 'यत्र क्रमयोगपद्याभ्यामर्थक्रियाविरोधो न तत्सत् यथा गगनाम्भोरुहम्, अस्ति च नित्ये सः' इत्यतोनुमानात्ततो व्या. वर्तमानं सत्त्वमनित्ये एवावतिष्ठत इत्यवसीयते; तन्न; सत्त्वाऽ. २५क्षणिकत्वयोर्विरोधाऽसिद्धेः। विरोधो हि सहानवस्थानलक्षणः, परस्परपरिहारस्थितिलक्षणो वा स्यात् ? न तावदाद्यः; स हि पदार्थस्य पूर्वमुपलम्मे पश्चात्पदार्थान्तरसद्भावाभावावगतो निश्चीयते शीतोष्णवत् । न च नित्यत्वस्योपलम्भोस्ति सत्त्वप्रस
ङ्गात् । नापि द्वितीयो विरोधस्तयोः सम्भवति; नित्यत्वपरि ३० हारेण सत्वस्य तत्परिहारेण वा नित्यत्वस्यानवस्थानात् ।
१ अस्त्यत्र मातुलिङ्गे रूपं रसादिति । २ उपादानकारणाद्रूपात् सजातीयरूपकरणप्रकारेण । ३ तृतीयपरिच्छेदे। ४ प्रत्यभिज्ञानस्याभ्रान्तत्वसमर्थनेन । ५ अक्षणिकत्वे। ६ सत्त्वस्य । ७ बसः। ८ सत्त्वं क्षणिकत्वनियतं तदन्वयव्यतिरेकानुविधानादिति ।
.९ नित्यं सन्न भवति क्रमयोगपद्याभ्यामर्थक्रियाविरोधात् । १० तमःप्रकाशयोरिव वा। Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org