________________
४७२
प्रमेयकमलमार्तण्डे [४. विषयपरि० त्वात् , अदृश्यत्वात् , स्वाश्रयेन्द्रियसम्बन्धविरहात्, आश्रयसमवेतरूपाभावाद्वा स्याद्त्यन्तराऽभावात् ? न तावदव्यक्तत्वात्। एकत्र व्यक्तौ सर्वत्र व्यक्तेरभिन्नत्वात् । अव्यक्तत्वाच्चान्तराले तस्यानुपलम्मे व्यक्तिस्वात्मनोप्यनुपलम्भोऽत (वास्तु । तत्रास्य ५सद्भावावेदकप्रमाणाभावादसत्त्वादेवाऽनुपलम्भे सामान्यस्यापि सोऽसत्त्वादेवास्तु विशेषाभावात् । न खलु प्रत्यक्षतस्तत्तत्रोपलभ्यते विशेषरहितत्वात् खरविषाणवत्। . किञ्च, प्रथमव्यक्तिग्रहणवेलायां तदभिव्यक्तस्यास्य ग्रहणे
अभेदात्तस्य सर्वत्र सर्वदोपलम्भप्रसङ्गः सर्वात्मनाभिव्यक्त १०त्वात्, अन्यथा व्यक्ताव्यक्तस्वभावभेदेनानेकत्वानुषङ्गादसामान्य
रूपतापत्तिः। तस्मादुपलब्धिलक्षणप्राप्तस्यानुपलम्भाव्यत्यन्तराले सामान्यस्यासत्त्वं व्यक्तिस्वात्मवत् । - 'व्यक्त्यन्तरालेऽस्ति सामान्यं युगपद्भिनदेशस्वाधारवृत्तित्वे
सत्येकत्वाद्वंशादिवत्' इत्यनुमानात्तत्र तद्भावसिद्धिः, इत्यप्यसङ्ग१५तम्; हेतोः प्रतिवाद्यऽसिद्धत्वात् । न हि भिन्नदेशासु व्यक्तिषु
सामान्यमेकं प्रत्यक्षतः स्थूणादौ वंशादिवत्प्रतीयते, यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिध्यत्वाधारान्तरा. लेऽस्तित्वं साधयेत् । तन्नाव्यक्तत्वात्तत्राऽनुपलम्भः।
नापि व्यवहितत्वादभिन्नत्वादेव । नापि दूरस्थितत्वातंत एव । २० नाप्यदृश्यात्मत्वात्, स्वाश्रयेन्द्रियसम्बन्धविरहात्, आश्रय. समवेतरूपाभावाद्वा; अभेदादेव । तन्न सर्वसर्वगतं सामान्यम्।
नापि खव्यक्तिसर्वगतम् ; प्रतिव्यक्ति परिसमाप्तत्वेनास्याऽनेक त्वानुषङ्गाद् व्यक्तिस्वरूपवत् । कात्स्न्यैकदेशाभ्यां वृत्त्यनुपपत्ते.
चोऽसत्वम्। २५ किञ्च, एकत्र व्यक्तौ सर्वात्मना वर्तमानस्यास्यान्यत्र वृत्तिन स्यात् । तत्र हि वृत्तिस्तद्देशे गमनात्, पिण्डेन सहोत्पादात्,
१ एकस्यां व्यक्तौ । २ प्राकट्ये सति । ३ व्यक्तिषु । ४ सामान्यस्याभिव्यक्तेः। ५ प्रकटरूपसामान्यस्सैकत्वात् । ६ व्यत्यन्तराले। ७ नाऽभावात् । ८ ततश्च सामान्यक्यक्तरपि व्यापकत्वान्नित्यत्वप्रसङ्गः। ९ सद्भावावेदकप्रमाणाभावस्य । १. व्यापकत्व. नित्यत्वात् । ११ विशेषरूपताप्रतिपत्तिरिति भावस्तस्याऽनेकरूपत्वात् । १२ देवदत्तेन व्यभिचारपरिहारार्थ विशेषणद्वयम् । १३ स्तम्भादौ । १४ जैनादि । १५ व्यक्तावsभिव्यक्तस्य सामान्यस्य । १६ एकस्वभावत्वात् (व्यत्तया सह )। १७ व्यापित्वात् । १८ सामान्यस्याश्रयाः खण्डादयः। १९ इन्द्रियसम्बद्धत्वादिविशिष्टव्यक्तिरूपत्वात् । २० व्यक्तीनामानन्त्यात् । २१ अनेकत्वसांशत्वलक्षणं दूषणमुदेष्यतीति भावः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org