SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ४४० प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तद्धेतोनिविषयप्रत्ययस्यायोगात् । नापि वाच्यापोहभेदनिमित्तः, तद्भेदस्य प्रागेव कृतोत्तरत्वात् । ननु प्रत्यक्षेणैव शब्दानां कारणभेदाद्विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एव; इत्यप्यसाम्प्रतम्; यतो वाचक शब्दमङ्गीकृत्यै५वमुच्यते । न च श्रोत्रज्ञानप्रतिभासिस्खलक्षणात्मा शब्दो वा चकः; सङ्केतकालानुभूतस्य व्यवहारकालेऽचिरनिरुद्धंत्वात् इति न वलक्षणस्य वाचकत्वं भवद्भिप्रायेण । तदुक्तम् "नार्थशब्दविशेषेण वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वासामान्य तूपदिश्यते ॥१॥"[ ] "तंत्र शब्दान्तरोपोहे सामान्ये परिकल्पिते । तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥ २॥" [मी० श्लो० अपोह० श्लो० १०४] ततो ये अवस्तुनी न तयोर्गम्यगमकभावो यथा खपुष्प-खरविषाणयोः । अवस्तुनी च वाच्यवाचकापोहौ भवतामिति । ननु १५ मेघाभावादृष्ट्यभावप्रतिपत्तेरनैकान्तिकता हेतोः; इत्यप्ययुक्तम् । तद्विविक्ताकाशालोकात्मकं हि वस्तु मत्पंक्षेऽत्रापि प्रयोगेस्त्येव, अमावस्य भावान्तरखभावत्वप्रतिपादनात् । भवत्पक्षे तु न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वाभावोऽपि तु वृष्टिमेघाद्यौवयोरपि। २० किञ्च, अपोहो वाच्यः, अर्थावाच्यो वा? वाच्यश्चेकि विधिरूपेण, अन्यव्यावृत्त्या वा? यदि विधिरूपेण; कथमपोहः सर्व १ वासनाकारणस्य । २ तुच्छरूपत्वान्निविषयत्वमपोहस्य सविकल्पकशानस्य । ३ गवादीनाम् । ४ ताल्वादि । ५ भिन्न । ६ अध्यासो ग्रहणम् । ७ पारमार्थिकाथस्य । ८ परेण सौगतेन । ९ स्वलक्षणरूपशब्दस्य । १० विनष्टत्वात् । ११ हेतोः। १२ शब्दखभावस्य । १३ बौद्ध । १४ अस्वलक्षणरूपैः शब्दरस्खलक्षणरूपार्थप्रतिपादने न किञ्चित्साध्यसिद्धिबौद्धमते इत्यभिप्रायः । १५ परेण । १६ सङ्केतकालात् । १७ अशातत्वात् । १८ उत्तरकाले । १९ अर्थशब्दयोः । २० तर्हि सामान्याकारण वाच्यवाचकतास्त्वित्याशङ्कायामाह । सामान्यस्य वाच्यवाचकतयोपदेशे च । २१ गोशब्दादश्वशब्दः शब्दान्तरं तेन वाच्योऽपोहस्तत्र। २२ अवास्तवे । परिकल्पितप्रकारेण । २३ शब्दानाम् । २४ समर्थ्यते । २५ सौगतानाम् । २६ अभावरूपयोरपि गम्यगमकभावोस्तीति वक्ति बौद्धः। २७ गम्यगमकभावसद्भावात्। २८ भवस्तुत्वादिति । २९ मेघादिमिन्न। ३० जैन। ३१ सौगत । ३२ वाच्यवाचकयोः। ३३ तुच्छरूपत्वात् । ३४ अन्यश्च । ३५ शब्देन । ३६ अथवा। ३७ शब्देन । ३८ अस्तित्वसद्भावेन । ३९ एव । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy