SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ २२ ४३६ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० विधातुं शक्यः । अथाऽगोनिवृत्यात्मा गौरव, नैन्वेवमगोनिवृत्तिस्वभावत्वादोरगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अंगोश्च गोप्रतिषेधात्मकत्वाद्गोप्रतिपत्तिद्वारेणेति स्फुटमितरेतराश्रयत्वम् । अथाऽगोशब्देन यो गौर्निषिध्यते स विधिरूंप ऐवागोव्य५वच्छेदलक्षणापोहसिद्ध्यर्थम् तेनेतरेतराश्रयत्वं न भविष्यति; यद्येवम्-'सर्वस्य शब्दस्यापोहोऽर्थः' इत्येवमपोहकल्पना वृथा विधिरूपस्यापि शब्दार्थस्य भावात्, अन्यथेतरेतराश्रयो दुर्निवारः। तदुक्तम् "सिद्धश्चागौरपोह्येत गोनिषेधात्मकश्च सः। तंत्र गौरेव वक्तव्यो नत्रा यः प्रतिषिध्यते ॥१॥ स चेदगोनिवृत्यात्मा भवेदन्योन्यसंश्रयः। सिद्धश्चेद्गौरपोहाथै वृथापोहप्रकल्पनम् ॥२॥ गव्यसिद्ध त्वगौर्नास्ति तदभावेप्य(पि)गौः कुतः। नौधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभायोः॥३॥" [मी० श्लो० अपोह० श्लो० ८३-८५] दिग्नागेन विशेषणविशेष्यभावसमर्थनार्थम् "नीलोत्पलादिशब्दा अर्थान्तरनिवृत्तिविशिष्टानांनाहुः"[ ] इत्युक्तम्। तयुक्तम्। यस्य हि येन कश्चिद्वास्तवः सम्बन्धः सिद्धस्तत्तेन विशिष्टमिति वक्तुं युक्तम्, न च नीलोत्पलयोरनीलानुत्पल२० व्यवच्छेदरूपत्वेनाभावरूपयोराधाराधेयत्वादिः सम्बन्धः सम्भ वति; नीरूपत्वात् । आदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्बन्धे तद्विशिष्टस्यै प्रतिपत्तिर्युक्ताऽतिप्रेसङ्गात् ।। १ पुरुषेण । २ अश्वाधभावात्मा। ३ उत्तरपदार्थः। ४ भो सौगत । ५ ता। ६ उत्तरपदार्थस्य । ७ अश्वादेः। ८ ता। ९ एव । १० प्रतीतिः। . ११ पूर्वोक्तप्रकारेण । १२ सालादिमात्रभावरूप इति भावः। १३ नागोनिवृत्यात्मा। १४ स्वरूप। १५ तहिं । १६ ज्ञातः। १७ गोशब्देन। १८ एवं सति। १९ उच्यते एव गौरित्युक्ते आह । २० विधिरूपेण । २१ अज्ञाते। २२ जैनेनोच्यते । २३ विशेष्यपदाभिधेयोऽभावो विशेष्य आधारश्च विशेषणपदाभिधेयोऽभावो विशेषणमाधेयश्चेत्यभिप्रायः परस्य (सौगतस्य) नीलो घट इत्यादिवत् । २४ न केवलं सङ्केतः। २५ कारिकोत्तरार्ध व्याचष्टे । २६ अनील अनुत्पललक्षण । २७ अभावसहितान् । २८ कथम् । २९ विशेष्यस्य । ३० विशेषणेन। ३१ अर्धरूपयोः। ३२ एकार्थसमवायः मातुलिङ्गक्षणं रूपवद्रसादेः। ३३ आदिना तादात्म्यम् । ३४ नील । ३५ उत्पलस्य । ३६ विशेषणविशेष्यतया सह्यविन्ध्ययोरपि प्रतिपत्तिः स्यादिति । ३४. . Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy