________________
सू० ३३१०१] अपोहवादः
४३५ यदि वाऽसत्यपि सारूप्ये शावलेयादिश्वगोपोहेकल्पना तदा गवाश्वयोरपि कस्मान्न कल्प्येताऽसौ विशेषाभावात् ? तदुक्तम्
"अथाऽसत्यपि सारूप्ये स्यादपोहँस्य कल्पना। गवाश्वयोरयं कॅस्सादगोपोहो न कल्प्यते ॥१॥ शालेयाच भिन्नत्वं बाहुलेयाश्वयोः समम् ।। सामान्यं नान्यदिष्टं चेत्कागोपोहः प्रवर्त्तताम् ॥ २॥"
[ मी० श्लो० अपोह० श्लो० ७६-७७] यथा च स्खलक्षणादिषु समयासम्भवान्न शब्दार्थत्वं तथाऽपोहेपि । निश्चितार्थो हि समयकृत्समयं करोति । न चापोहः केनचिदिन्द्रियैर्व्यवैसीयते; तस्यावस्तुत्वादिन्द्रियाणां च वैस्तुविषय-१० त्वात् । नाप्यनुमानेन; वस्तुभूतसामान्यमन्तरेणानुमानस्यैवाऽ. प्रवृत्तेः।
अस्तु वा समयः, तीपि-कथमश्वादीनां गोशब्दानभिधेयत्वम् ? 'सैम्बन्धौनुभवःणेऽश्चादेस्तद्विषयत्वेनाईष्टेः' इत्यनुत्तरम् ; यतो यदि यद्गोशब्दसङ्केतकाले दृष्टं ततोऽन्यत्र गोशब्द-१५ प्रवृत्तिनैध्यते, तदैकस्मात्सङ्केतेन विषयीताच्छावलेयादिगोपिण्डात् अन्यद्बाहुलेयादि गोशब्देनापोह्यं न भवेत्।
इतरेतराश्रयश्च-अगोव्यवच्छेदेन हि गोः प्रतिपत्तिः, स चाऽगौर्गोनिषेधात्मा, ततश्च अगौः इत्यत्रोत्तरपदार्थो वक्तव्यो यो 'न गौः' इत्यत्र नञा प्रतिषेध्येत । न ह्यनितिखरूपस्य निषेधो २०
१ अश्वाद्यभाव। २ एक। ३ सारूप्यासत्त्वाविशेषात्। ४ यदि । ५ शावलेयादौ ! ६ एकगोः। ७ कारणात् । ८ गवाश्वयोभिन्नत्वादेकागोपोहाश्रयत्वं नेत्युक्त आह । ९ समानम् । १० परमार्थभूतम् । ११ भिन्नम् । १२ विशेषेषु क्षणिकनिरंशादिषु । १३ शावलेयादिषु । १४ सङ्केत । १५ घटते इति शेषः । १६ अस्य शब्दस्यायमर्थ इति। १७ ना। १८ नरेण । १९ निश्चीयते । २० स्वलक्षण । २१ अपोहे। २२ अपोहे समयसद्भावेपि । २३ स्यात् । २४ अनुमानमप्यन्यापोहं नावबोधयति । २५ गोशब्देन सास्लादिमदर्थस्य अनुमानस्य कार्यस्वभावसम्पाद्यत्वात् । अन्यापोहस्य निरुपाख्यत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात् । २६ काले । २७ ता। २८ दर्शनाभावात् । २९ दृष्टं वर्जयित्वा । ३० अश्वे। ३१ परेण । ३२ खण्डमुण्डादिनाम्ना । ३३ गोशब्दस्यायं वाच्य इति । ३४ सौगतेन । ३५ गोपिण्डम् । ३६ अश्वादि व्यावय॑म् । ३७ सङ्केतकाले सङ्केतेनाविषयीकृतत्वाद्बाहुलेयादेः । ३८ दूषणान्तरमाह । ३९ कथम् । ४० गोशब्दार्थः। ४१ परेण त्वया। ४२ समासारम्भे वाक्ये । ४३ पदार्थस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org