________________
४३२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० नुपलम्भात् । विधिनिषेधज्ञानयोश्चान्योन्यं विरोधात् कथमेकरमासम्भवः?
यदि च गोशब्देनागोशब्दनिवृत्तिर्मुख्यतः प्रतिपद्यते; तर्हि गोशब्दश्रवणानन्तरं प्रथमतरम् 'अगौः' इत्येषा श्रोतुः प्रतिपत्ति५ भवेत् । न चैवम् , अंतो गोवुद्धयनुत्पत्तिप्रसङ्गात् । तदुक्तम्- '
"नन्वन्यापोहॅकृच्छब्दो युष्मत्पक्षेऽनुवर्णितः। निषेधमानं नैवेह प्रतिभासेऽवगम्यते ॥१॥ किन्तु गौर्गवयो हस्ती वृक्ष इत्यादिशब्दतः। विधिरूपावसायेन मतिः शाब्दी प्रवर्त्तते ॥ २॥"
[तत्त्वसं० का० ९१०-११ पूर्वपक्षे] "यदि गौरित्ययं शब्दः समर्थोन्यनिवर्तने । जनको गवि गोबुद्धि(द्धे)मुंग्यतामपरो ध्वनिः ॥३॥ ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवादविधिज्ञानं फलमेकैस्य वः कथम् ॥ ४॥ प्रौगंगौरिति विज्ञानं गोशब्दाविणो भवेत् । येोऽगोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥५॥"
[भामहालं० ६।१७-१९] किञ्च, अपोहलक्षणं सामान्यं वाच्यत्वेनाभिधीयमानं पर्युदासलक्षणं चाभिधीयेत, प्रसज्यलक्षणं वा? प्रथमपक्षे सिद्धसाध्यता२० यदेव ह्यगोनिवृत्तिलक्षणं सामान्यं गोशब्देनोच्यते भवता
तदेवास्माभिर्गोत्वाख्यं भौवलक्षणं सामान्यं गोशब्दवाच्यमित्यभिधीयेत, अभावस्य भावान्तरात्मकत्वेन व्यवस्थितत्वात् ।
कश्चायं भवतामश्वादिनिवृत्तिखभावो भावोऽभिप्रेतः ? न ता. वदसाधारणो गवादिस्खलक्षणात्मा तस्य सकलविकल्पगोचराति
१ परस्परविरुद्धार्थप्रतिपादनविरोधात् । २ यत्र विधिविज्ञानं तत्र निषेधविज्ञानं नास्ति । यत्र निषेधशानं न तत्र विधिज्ञानमिति । ३ बुद्धिद्वयस्य । ४ परेण भवता । ५ अगोः निवृत्तेः पूर्वम्। ६ एव । ७ अश्वादिः । ८ अन्यथा। ९ गौरिति बुद्धिस्तस्या अनुत्पत्तिः। १० तं करोतीति । ११ बौद्ध । १२ प्रतिपादितः । १३ गौरयमित्यस्मिन् । १४ तर्हि कथं प्रतिभासः । १५ अर्थस्य । १६ अश्वादि । १७ तर्हि । १८ भवन्तु । १९ विधिनिषेधज्ञान । २० शब्दस्य । २१ विधिनिषेकलक्षणम् । २२ निषेध । २३ शब्दस्य । २४ बौद्धानाम् । २५ अगोनिवृत्तेः पूर्वम्। २६ अश्वः। २७ जनस्य । २८ कुतः। २९ गोशब्दस्यार्थत्वेन । ३० बौद्धमते । ३१ कथम् । ३२ सौगतेन । ३३ जैनैः। ३४ सत्ता। ३५ अगोनिवृत्तिलक्षणोsभावो भावान्तरेण गोत्वेन व्यवतिष्ठते । ३६ क्षणिकनिरंशनिरन्वयरूपः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org