SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ सू० ३।९९] शब्दनित्यत्ववादः ४.१९ "स्याच्छब्दस्य हि संस्कारादिन्द्रियस्योभयस्य वा।" [मी० श्लो० शब्दनि० श्लो० ५२] "स्थिरवाय्यपनीत्या च संस्कारोस्य भवन्भवेत्।" [मी० श्लो० शब्दनि० श्लो० ६२] इत्यभिधानात् । तत्राद्ये पक्षे कोयं शब्दसंस्कारः-शब्दस्योपलब्धिः, तस्यात्मभूतः क्वचिदतिशयः, अनतिशयव्यावृत्तिा , खरूपपरिपोषो वा, व्यक्तिसमवायो वा, तद्हणापेक्षग्रहणता वा, व्यञ्जकसन्निधानमात्रं वा, आवरणविगमो वा स्यात् ? यदि शब्दोपलब्धिः, कथमसौ ध्वनीनां गमिका शब्दे श्रोत्रमात्रभावित्वात्तस्याः? तथाप्य-१. न्यनिमित्तकल्पने हेतूनामनवस्थितिः स्यात् । तस्यात्मभूतः कश्चिदतिशयोऽनतिशयव्यावृत्तिर्वा इत्यत्रापि अतिशयो दृश्यखभाव एव,अनतिशयव्यावृत्तिस्त्वदृश्यखभावखण्डनमेव । ते चेत्ततोऽन्ये; तत्करणेपि शब्दस्य न किञ्चित्कृतमिति तवस्थाऽस्याऽश्रुतिः । अथाऽनन्ये; तदा शब्दस्यापि कार्यतया १५ अनित्यत्वानुषङ्गः । यो हि यस्मादसमर्थखभावपरित्यागेन समर्थखभावं लभते स चेन्न तस्य जन्यः; केदानीं जन्यताव्यवहारः? न च समर्थखभाष एव जन्यो न शब्दः इत्यभिधातव्यम्। तस्याऽतो विरुद्धधर्माध्यासतो भेदानुषङ्गात् । तत्र चौक्तो दोषः। श्रोत्रप्रदेशे एव चास्य संस्कारे तावन्मात्रक एव शब्दः,२० न सर्वगतः स्यात् । तस्यैवान्यत्र तद्विपर्ययेणावस्थाने दृश्याssदृश्यत्वप्रसङ्गात् निरंशत्वव्याघातो विप्रतिपत्यभावश्चार्य परिणामित्वप्रसिद्धेः । यदस्माभिः 'श्रावणस्वभावविनाशोत्पत्तिमत्पुद्गलँद्रव्यम्' इत्यभिधीयते तद्युष्माभिः 'वर्णः' इत्याख्यायते । यौ च श्रावणखभावोत्पादविनाशौ शब्दोत्पादविनाशा-२५ वसाभिरिष्टौ तौ युष्माभिः शब्दाभिव्यक्तितिरोभावाविति नाग्नैव १ शब्दस्य । २ नियमामावः। ३ शब्दस्य । ४ तस्य अतिशयस्य अनतिशयव्यावृत्त। ५ शब्दस्य । ६ शब्दात् । ७ ध्वनेः। ८ असमर्थस्वभाव:पूर्वावस्था (शब्दाप्राकट्यम् ) । ९ अपि तु न कापीत्यर्थः। १० शब्दस्य । ११ श्रोत्रप्रदेशादन्यत्र । १२ स्वभावस्य जन्यता शब्दस्य त्वजन्यतेति मेदे। १३ सर्वगतत्वे च शब्दस्य । १४ शब्दस्य । १५ जनैः। १६ पुद्गले एव श्रावणस्वभावतोत्पद्यते नश्यति च । १७ तदेव शब्दः। १८ मीमांसकैः। १९ शब्दरूपः । २० जैनः । २१ मीमांसकैः । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy