________________
प्रमेयकमलमार्त्तण्डे
[ ३. परोक्षपरि०
यत्पुनरुक्तम्- 'व्यञ्जकध्वन्यधीनत्वात्तदेशे स च गृह्यते' इत्यादिः तत्र कुतो ध्वनयः प्रतिपन्ना येन तदधीना शब्दश्रुतिः स्यात् ? प्रत्यक्षेण, अनुमानेन, अर्थापत्त्या वा ? प्रत्यक्षेण चेत्किं श्रोत्रेण, स्पर्शनेन वा ? न तावच्छ्रोत्रेण तथा प्रतीत्यभा५ वात् । न खलु शब्दवत्तत्र ध्वनयः प्रतिभासन्ते विप्रतिपत्त्यभावप्रसङ्गात् । तत्र ध्वनिप्रतिभासे चापरशब्दकल्पनावैयर्थ्यमिस्युक्तम् । अथ स्पार्शनप्रत्यक्षेण ते प्रतीयन्ते - स्वकरपिहितवदनो हि वदन् स्वकरसंस्पर्शनेन तान्प्रतिपद्यते, वदतो मुखाग्रे स्थिततूलादेः प्रेरणोपलम्भादनुमानेनेति; तद्व्यसाम्प्रतम् ; वायुवत्ता१० ल्वादिव्यापारानन्तरं कफांशानामप्युपलम्भेन शब्दाभिव्यञ्जकत्वप्रसङ्गात् । वक्तृवक्त्रप्रदेश एवैषां प्रक्षयेण श्रोतृश्रोत्रप्रदेशे गमनाभावान्न तत्; इत्यन्यत्रापि समानम् । न हि वायवोपि तत्र गच्छन्तः समुपलभ्यन्ते । शब्दप्रतिपत्त्यन्यथानुपपत्त्या प्रतिपत्तिस्तूभयत्रसमाना । यथा च स्तिमितभाषिणो न कफांशोपलम्भ१५ स्तथा वायूपलम्भोपि नास्ति । स्तिमितस्य कल्पनमुभयत्र समानम् । तन्न प्रत्यक्षेणानुमानेन वा तत्प्रतिपत्तिः ।
४१८
२०
अथार्थापत्त्या तेषां प्रतिपत्तिः; तथाहि - शब्दस्तावन्नित्यत्वानोत्पद्यते संस्कृतिरेव तु क्रियते । सा च विशिष्टा नोपपद्येत यदि ध्वनयो न स्युः । तदुक्तम्— "शब्दोत्पत्तेर्निषिद्धत्वादन्यथानुपपत्तितः । विशिष्टसंस्कृतेर्जन्म ध्वनिभ्यो व्यवसीयते ॥ १ ॥ तद्भावभाविता चात्र शक्त्यस्तित्वावबोधिनी । श्रोत्रशक्तिव देवेष्टा बुद्धिस्तत्र हि संहृता ॥ २॥ कुंड्यादिप्रतिबन्धोपि युज्यते मातरिश्वनः । श्रोत्रादेरभिघातोपि युज्यते तीव्रवर्त्तिना ॥ ३ ॥” [मी० लो० शब्दनि० श्लो० १२६-१२९]
२५
इति तत्र केयं विशिष्टा संस्कृतिर्नाम - शब्दसंस्कारः, श्रोत्रसंस्कारः, उभयसंस्करो, वा ? परेणं हि त्रेधा संस्कारोऽभ्युपगम्यते । स च -
१ शब्दस्य अभिव्यक्तिः । २ निश्चीयते । ध्वनयः सन्ति शब्दसंस्कारान्यथानुपपत्तेरिति । ३ तद्भावभावित्वमसिद्धमित्युक्ते आह बुद्धिरिति । बुद्धिः = प्रत्यक्षबुद्धिः । ४ नियता । ५ शब्दस्यामूर्तत्वे कुड्यादिप्रतिबन्धो न स्याच्छ्रोत्राभिघातो वा न स्यादित्युक्ते आह । ६ शब्दव्यञ्जकवायोः । ७ शब्दव्यञ्जकवायुना । ८ ध्वनेः ९ मीमांसकेन ।
2
सकाशात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org