SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ सू० ३।६६-७७ ] अथाविरुद्धोपलब्धिमुदाहृत्येदानीं हेतुप्रकाराः विरुद्धोपलब्धिमुदाहर्त्तु विरुद्धेत्याद्याह विरुद्धतदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥ प्रतिषेध्येन यद्विरुद्धं तत्सम्बन्धिनां तेषां व्याप्यादीनामुपलब्धिः प्रतिषेधे साध्ये तथाऽविरुद्धोपलब्धिवत् षट्प्रकारा । तानेव षट् प्रकारान् यथेत्यादिना प्रदर्शयति ५ ( यथा) नास्त्यत्र शीतस्पर्श औष्ण्यात् ॥ ७२ ॥ यथेत्युदाहरणप्रदर्शने । औष्ण्यं हि व्याप्यमग्नेः । स च विरुद्धः शीतस्पर्शन प्रतिषेध्येनेति । विरुद्धकार्य लिङ्गं यथा नास्त्यत्र शीतस्पर्शो धूमात् ॥ ७३ ॥ विरुद्धकारणं लिङ्गं यथा नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ७४ ॥ सुखेन हि प्रतिषेध्येन विरुद्धं दुःखम् । तस्य कारणं हृदयशल्यम् । तत्कुतश्चित्तदुपदेशादेः सिद्ध्यत्सुखं प्रतिषेधतीति । १५ विरुद्धपूर्ववरं यथा नोदेष्यति मुहूर्त्तान्ते शकटं रेवत्युदयात् ॥ ७५ ॥ ३८५ - १ साध्येन । २ प्रतिषेध्येन 1 प्र० क० मा० ३३ शकटोदयविरुद्ध श्विन्युदयस्तत्पूर्वचरो रेवत्युदय इति । विरुद्धोत्तरचरं यथा Jain Educationa International २० नोदगाद्भरणिर्मुहूर्त्तात्पूर्वं पुष्योदयात् ॥ ७६ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति । विरुद्धसहचरं यथा नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागात् ॥७७॥ परभागाभावेन हि विरुद्धस्तत्सद्भावस्तत्सहचरोऽर्वाग्भाग २५ इति । १० For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy