________________
३८४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामशून्यस्य सर्वथा नित्यत्वे क्षणिकत्वे वा शब्दस्य कृतकत्वानुपपत्तेर्वक्ष्यमाणत्वाद् । किं पुनः कार्यलिङ्गस्योदाहरणमित्याह
अस्त्यत्र शरीरे बुद्धिाहारादेः ॥ ६६ ॥ ५ व्याहारो वचनम् । आदिशब्दाद्व्यापाराकारविशेषपरिग्रहः। ननु ताल्वाद्यन्वयव्यतिरेकानुविधायितया शब्दस्योपलम्भात्कथ. मात्मकार्यत्वं येनातस्तदस्तित्वसिद्धिः स्यात् ? न खल्वात्मनि विद्यमानेपि विवक्षाबद्धपरिकरे कफादिदोषकण्ठादिव्यापाराभावे
वचनं प्रवर्तते; तदप्यसारम्; शब्दोत्पत्तौ ताल्वादिसहायस्यै१० वात्मनो व्यापाराभ्युपगमात् । घटाद्युत्पत्तौ चक्रादिसहायस्य
कुम्भकारादेापारवत्, कथमन्यथा घटादेरप्यात्मकार्यता? कार्यकार्यादेश्च कार्यहेतावेवान्तर्भावः। कारणलिङ्गं यथा
अस्त्यत्र छाया छत्रात् ॥ ६७ ॥ १५ कारणकारणादेरत्रैवानुप्रवेशान्नार्थान्तरत्वम् ।
पूर्वचरलिङ्गं यथा
उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ पूर्वपूर्वचराद्यनेनैव सङ्ग्रहीतम् । उत्तरचरं लिङ्गं यथा
उदगाद्भरणिस्तत एव ॥ ६९॥ कृत्तिकोदयादेव । उत्तरोत्तरचरमेतेनैव सङ्गृह्यते । सहचरं लिङ्गं यथा
अस्त्यत्र मातुलिङ्गे रूपं रसात् ॥७॥
संयोगिने एकार्थसमैवायिनैश्च साध्यसमकालस्यात्रैवान्तर्भावो २५द्रष्टव्यः।
१ आत्मा । २ सुच्छायतादि । ३ सहित । ४ सहाय । ५ कण्ठादिव्यवहारभाव एव कारणम्। ६ जैनः । ७ ताल्वाद्यन्वयव्यतिरेकानुविधायित्वेन ताल्वादेरेव. कार्य शब्द इत्येवं यदि। ८ अभूदत्र शिवकः स्थासात् । ९ महोऽवत्यानां कण्ठाक्षेपविक्षेपकारी धूमवदग्निमत्त्वात् । कण्ठादिविक्षेपस्य कारणं धूमस्तस्य च कारणं वहिरति । १० उदाहियते । ११ आत्मनोत्राऽस्तित्वं विशिष्टशरीरात् । अत्रापि नैयायिक मतानुसरणे कार्यहेतोरेव धूमादेरियं संशा। १२ नैयायिकमतानुसरणे सहचरहेतोरियं संशा। १३ हेतोः। .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org