________________
३८२ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० भिन्नयोः कार्यकारणभावान्नान्यः सम्बन्धः, स्वयं सौगतैस्तथीऽभ्युपगमात् । तत्र चारिष्टादिना तक्रियेत, तेन वारिष्टादिकम् ? प्रथमपक्षेऽरिष्टादेरेव तनिष्पत्तेर्मरणादिकमकिञ्चित्करमेव क्वचिदप्यनुपयोगात् । तेनारिष्टादिकरणे पूर्वनिष्पन्नस्य पश्चादुपजाय. ५मानेन तेन किं क्रियत इत्युक्तम् । अथाऽनिष्पन्न किञ्चिदस्ति; तत्रापि पूर्ववच्च नवस्था च।।
ननु यद्यत्र कार्यकारणभावो न स्यात्कथं तर्हि एकदर्शनादन्या. नुमानमिति चेत्, 'अविनाभावात्' इति ब्रूमः । तादात्म्य. तदुत्पत्तिलक्षणप्रतिबन्धेप्यविनाभावादेव गमकत्वम् । तदभावे १० वक्तृत्वतत्पुत्रत्वादेस्तादात्म्यतदुत्पत्तिप्रतिबन्धे सत्यपि असर्वशत्वे श्यामत्वे च साध्ये गमकत्वाप्रतीतेः । तदावेपि चाविनाभावप्रसादात् कृत्तिकोदय चन्द्रोदय-उद्धृहीताण्डकपिपीलिको र्पणएकाम्रफलोपलभ्यमानमधुररसस्वरूपाणां हेतूनां यथाक्रमं शकटोदय-समानसमयसमुद्रवृद्धि-भाविवृष्टि-समसमयसिन्दूरारुणं१५रूपखभावेषु साध्येषु गमकत्वप्रतीतेश्च । तदुक्तम्
"कार्यकारणभावादिसम्बन्धानां द्वयी गतिः । नियमानियमाभ्यां स्यादनियमादनङ्गता ॥१॥ सर्वेप्यनियमा ह्येते नानुमोत्पत्तिकारणम् ।
नियत्केिवलादेव न किञ्चिन्नानुमीयते ॥ २॥"[ ] २० ततः शरीरनिर्वतकाऽदृष्टीदिकारणकलापादरिष्टकरतलरेखा
दयो निष्पन्नाः भाविनो मरणराज्यादेरनुमापका इति प्रतिपत्तव्यम्।
जाग्रद्बोधस्तु प्रबोधवोधस्य हेतुरित्येतत्प्रांगेव प्रतिविहितम्, खापाद्यवस्थायामपि ज्ञानस्य प्रसाधितत्वात् । ततो भाव्यतीत
१ निष्पन्नानिष्पन्नयोः । २ संयोगादिः। ३ अन्यसम्बन्धाभावप्रकारेण । ४ अनिघ्पन्नम्। ५ अनिष्पन्नरूपेण। ६ कायें। ७ अरिष्टादि । ८ चटन। ९ अन्धकारावस्थायामास्वाद्यमानमाम्रफलं सिन्दूरारुणरूपयुक्तं भवति मधुररसोपेतत्वादुपभुक्ताभ्रफलवत् । १० आदिना तादात्म्यसंयोगादि । ११ प्रकारः। १२ अविनाभावाभावात् । १३ अनुमानं प्रति । १४ अनियमादनङ्गतेत्येतदेवाचष्टे सर्वे इत्यादिना। १५ कार्यकारणतादात्म्यादयः। १६ वक्तृत्वतत्पुत्रत्वादीनां हेत्वाभासानां येऽविनाभावरहिताः कार्यकारणादिसम्बन्धास्ते सर्वे अनुमानोत्पत्तिकारणं न भवन्ति। १७ तर्यनुमानोत्पत्तिं प्रति किं कारणमित्युक्ते सत्याह । १८ अविनाभावात् । १९ साध्यम् । २० आदिनात्मादि । २१ योगेन । २२ मोक्षविचारावसरे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org