________________
सू० ३।६१-६३ ] भाव्यतीतयोः कारणत्वनिरासः ३८१ न वर्तमानस्य रूपस्य वातीतस्य वा प्रतीतिः। इत्ययुक्तमुक्तम्-"अतीतैकैकालीनां गतिर्नाऽनागतानाम्" [प्रमाणवा० स्ववृ० १६१३] इति । अथान्यतरकार्यमसौ; तहऽन्यतरस्यैवातः प्रतीतिर्भवेत् ।
ननु बसत्तासमवायात्पूर्वमसन्तोपि मरणादयोऽरिष्टादिकार्यकारिणो दृष्टास्ततोऽनेकान्तो हेतोरित्याशय भाव्यतीतयोरित्या-५ दिना प्रतिविधत्ते
भाव्यतीतयोर्मरणजाग्रबोधयोरपि
नारिष्टोद्बोधौ प्रति हेतुत्वम् ॥ ६२ ॥ तंद्यापाराश्रितं हि तेद्भावभावित्वम् ॥ ६३॥ न च पूर्वमेवोत्पन्नमरिष्टं करतलरेखादिकं वा भाविनो मरणस्य १० राज्यादेर्व्यापारमपेक्षते, खयमुत्पन्नस्यापरापेक्षायोगात् । अथा. स्योत्पत्तिमरणादिनैव क्रियते; न; असंतः खरविषाणवत्कर्तृत्वायोगात् । कार्यकालेऽसत्त्वेपि स्वकाले सत्त्वाददोषश्चेत्, ननु किं भाविनो मरणादेः स्वकाले पूर्व सत्त्वम् , अरिष्टौदेर्वा । भाविनः पूर्व सत्त्वे ततः पश्चादरिष्टादिकमुपजायमानं पाश्चात्यं न पूर्वम् । १५ इत्ययुक्तमुक्तम्-'पूर्वमसन्तोपि मरणादयोऽरिष्टादिकार्यकारिणः' इति । अथान्यभाविमरणाद्यपेक्षयारिष्टादिकं पूर्वमुच्यते; ननु तदपि सत् स्वकाले यदि ततः प्रागेव स्यात्; तर्हि पाश्चात्यमरिष्टादिकं कथं ततः पूर्वमुच्यते ? अन्यभाविमरणाद्यपेक्षया चेदनवस्था। __ अथ पूर्वमरिष्टोदिकं खकाले पश्चाद्भाविमरणादिकं स्वकाल-२० नियतं भवेत्। तर्हि निप्पन्नस्य निराकाङ्क्षस्यास्य पश्चादुपजायमानेन मरणादिना कथं करणं कृतस्य करणायोगात् ? अन्यथा न वचित्कार्य कस्यचित्कारणस्य कदाचिदुपरमः स्यात्, पुनःपुनस्तस्यैव करणात् । अथ निष्पन्नस्याप्यनिष्पन्नं किश्चिद्रूपमस्ति तत्करणात्तत्तत्कारणं कल्प्यते, तत्ततो यद्यभिन्नम्। तदेव तत्तस्य च २५ न करणमित्युक्तम् । भिन्नं चेत् । तदेव तेन क्रियते नारिष्टादिकमित्यायातम् । तत्सम्बन्धिनस्तस्य करणात्तदपि कृतमिति चेत्;
१ अतीतश्चैकश्च अतीतैको कालो येषां रूपादीनाम् । २ साध्यार्थानाम् । ३ शकटोदयभरण्युदययोर्मध्ये। ४ कारणस्य । ५ आदिना राज्यादयश्च । ६ उत्पातहस्तरेखादि। ७ अरिष्टादिना । ८ कारणस्य । ९ कारणस्य । १० इति चेत् । ११ अरिष्टादिकाले । १२ मरणादेः सकाशात्पूर्व सखम् । १३ सकाशात् । १४ द्वितीयविकल्पोयम् । १५ अरिष्टादेः। १६ परेण ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org