________________
३४४ प्रमेयकमलमार्तण्डे [३. परोक्षपरिक सम्बन्धस्मरणानन्तरमेवोपजायते, अन्यथा साधर्म्यदृष्टान्तोपन्यासो व्यर्थः स्यात् ।
शब्दाकारधारित्वं च प्रोगेव प्रतिषिद्धम् ।
वाध्यमानत्वं चासिद्धम् ; न खलु प्रत्यक्षं तद्बाधकम् । तस्य ५ तद्विषयप्रवृत्त्यऽसम्भवात् । यद्धि यद्विषये न प्रवर्त्तते न तत्र तस्य साधकं बाधकं वा यथा रूपज्ञानस्य रसज्ञानम्, न प्रवर्त्तते च प्रत्यभिज्ञानस्य विषये प्रत्यक्षमिति । नाप्यनुमानं तद्बाधकम् । प्रत्यभिज्ञानविषये तस्याप्यप्रवृत्तेः, क्वचिदनुमेयमात्रे प्रवृत्ति
प्रसिद्धः । तस्य तद्विषये प्रवृत्तौ वा सर्वथा बाधकत्वविरोधः। १० ततः प्रमाणं प्रत्यभिज्ञा सकलबाधकरहितत्वात्प्रत्यक्षादिवत्।।
ऐंतेनैव 'गोसदृशो गवयः' इत्यादि सादृश्यनिवन्धनं प्रत्यभिज्ञानं प्रमाणमावेदितं प्रतिपत्तव्यम् , तस्यापि स्वविषये बाधविधुरत्वस्य संवादकत्वस्य च प्रसिद्धः ।
ननु सादृश्यस्यार्थेभ्यो भिन्नाभिन्नादिविकल्पैर्विचार्यमाणस्यायो१५ गात्तद्विषयप्रत्यभिज्ञानस्य बाधविधुरत्वमविसंवादकत्वं चासि
द्धम् ; इत्यप्यास्तां ताँवत्, प्रत्यक्षादिप्रमाणविषयभूतत्वेनाबाधिततत्स्वरूपस्य सामान्यसिद्धिप्रक्रमे प्रतिपादयिष्यमाणत्वात् । न च तस्मिन्नेव स्वपुत्रादौ 'तादृशोयम्' इति प्रत्यभिज्ञानं सादृश्यनिवन्धनं 'स एवायम्' इत्येकत्वनिबन्धनप्रत्यभिज्ञानेन बाध्य२० मानमप्रमाणं प्रतिपाद्य स्वपुत्रादिना सदृशे पुरुषे 'तादृशोयम्' इत्यपि प्रत्यभिज्ञानमप्रमाणं प्रतिपादयितुं युक्तम् । तस्याबाध्यमानत्वेन प्रमाणत्वात्।
स्यान्मतम्-प्रत्यभिज्ञानमनुमानत्वेन प्रमाणमिष्यत एव; तथाहि-पूर्वोत्तरार्थक्षणयोरनर्थान्तरभूतं सादृश्यं तत्प्रत्यक्षाभ्यां २५ प्रतीयत एव । यस्तु तथा प्रतिपद्यमानोपि सादृश्यव्यवहारं न करोति घटविविक्तभूतलप्रतिपत्तावपि घटाभावव्यवहारवेत्, स 'प्रागुपलब्धार्थसमानोयं तत्सदृशाकारोपलम्भात्' इत्युभय
. १ ज्ञाने । २ शब्दाद्वैतनिराकरणे। ३ अन्यादौ । ४ एकत्वनिबन्धनप्रत्यभिज्ञानप्रामाण्यसमर्थनग्रन्थेन । ५ देवदत्तेन सदृशो यशदत्त इत्यादि च। ६ आदिना उभयग्रहणम् । ७ पुनः। ८ आदिनानुमानादि । ९ एकस्मिन् । १० बौद्धसिद्धान्तोयम् । ११ गोगवयलक्षणौ पूर्वोत्तरकालभाविप्रत्यक्षसम्बन्धित्वेन पूर्वोत्तरार्थक्षणौ। १२ यथा घटभावे व्यवहारं न करोति साङ्ख्यः इत्यर्थः । १३ पूर्वदृष्टेन यशदत्तादिना । १४ दृश्यमानो देवदत्तादिः। १५ अयं दृश्यमानो गवयो गोसदृशः गोसदृशाकारत्वाद्गोगवयप्रत्यक्षत्वे सति सादृश्यव्यवहारात् । १६ व्यक्तिद्वयगतः। ...
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org