________________
सृ० २।१२]
मोक्ष स्वरूप विचारः
३१९
पाये ज्ञानादिसन्तानसद्भावश्वाशेषज्ञ सिद्धिप्रस्तावे प्रतिपादितः । कथं चातीन्द्रियज्ञानाद्यनभ्युपगमे महेश्वरे तत्सद्भावः स्यात् ? नित्यत्वं चेश्वरज्ञानस्येश्वरनिराकरणे प्रतिषिद्धम् । शरीराद्यपायेप्यस्य ज्ञानाद्यभ्युपगमेऽन्यात्मनोपि सोस्तु तत्स्वभावत्वात् । न च स्वभावापाये तद्वतोऽवस्थानमैतिप्रसङ्गात् ।
७
यत्तूक्तम् आरब्धकार्ययोश्चोपभोगात्प्रक्षयः तदपि न सूक्तम् ; उपभोगात्कर्मणः प्रक्षये तेंदुपभोगसमये अपरकर्मनिमित्तस्याभिलापूर्वक मनोवाक्कायव्यापारादेः सम्भवात् अविकलकारणस्य प्रचुरतरकर्मणो भवतः कथमात्यन्तिकः प्रक्षयः ? सम्यग्ज्ञानस्य तु मिथ्याज्ञानोच्छेदकमेण बाह्याभ्यन्तरक्रियानिवृत्तिलक्षणचा १० रित्रोपबृंहितस्यागामि कर्मानुत्पत्तिसामर्थ्यवत् सञ्चितकर्मक्षयेपि सामर्थ्य सम्भाव्यत एव । यथेोष्णस्पर्शस्य भाविशीतस्पर्शानुत्पत्तौ सामर्थ्यवत् प्रवृत्ततस्पर्शादिध्वंसेपि सामर्थ्य प्रती - यते । किन्तु परिणामिजीवाजीवा दिवस्तुविषयमेव सम्यग्ज्ञानम्, न पुनरेकान्त नित्यानित्यात्मादिविषयम्; तस्य विपरीतार्थग्राहक- १५ त्वेन मिथ्यात्वोपपत्तेरित्यैग्रे निवेदयिष्यते । अतो यदुक्तम्- 'यथैधांसि' इत्यादिः तत्सर्व संवररूपचारित्रोपबृंहितसम्यग्ज्ञानाग्नेरशेषकर्मक्षये सामर्थ्याभ्युपगमात्सिद्धसाधनम् ।
यच्चाभ्यधायि - समाधिबलादुत्पन्नतत्त्वज्ञानस्येत्यादिः तदप्यभिधानमात्रम् अभिलाषरूपरागाद्यभावेऽङ्गनाद्युपभोगासम्भवात् ॥ २० तत्सम्भवे वावश्यंभावी वृद्धिमेतो भवदभिप्रायेण योगिनोपि प्रचुरतरधर्माधर्मसम्भवो नृपत्यादेरिवातिभोगिनः । वैद्योपदेशादातुरोप्यौषधाद्याचरणे नीरुग्भावाभिलाषेणैव प्रवर्त्तते, न पुनर्ज्ञानमात्रात् । तन्नाशेषशरीरद्वारावाप्ताशेषभोगस्य कर्मान्तरानुत्पत्तिः । किं तर्हि ? परिपूर्ण सम्यग्दर्शनज्ञानचारित्रस्य इत्यलं विवादेर्ने, २५ जीवन्मुक्तेरैपि त्रितयात्मकादेव हेतोः सिद्धेः । संसारकारणं हि
"
१६
१ किञ्च । २ तद् = ज्ञानम् । ३ पृथुबुनोदराद्याकाराभावे घटावस्थानप्रसङ्गात् । ४ तस्य कर्मफलस्य । ५ उत्पद्यमानस्य । ६ सम्यग्ज्ञानान्मिथ्याज्ञानाभावः, मिथ्याज्ञानाभावाद्रागाद्यभावः, रागाद्यभावाद्वाह्या ( वचनादि ) भ्यन्तर ( चिन्तन ) क्रियानिवृत्तिरिति । १७ सहितस्य । ८ अङ्गकम्प उद्धर्षणादेः । ९ अस्मदीयमपि तत्त्वशानं सञ्चितकर्मक्षय निबन्धन मागामिकर्मानुत्पत्तिकारणं स्यादित्युक्ते आह । नित्यादि वस्तुविषयज्ञानस्य सम्यग्ज्ञानता न प्रतीयते किन्तु इत्यादि । १० नित्यात्मादिविषयज्ञानस्य । ११ अनेकान्तसिद्धौ । १२ आकाङ्क्षावतः । १३ न केवलं योगी । १४ सम्यग्दर्शनादित्रयमोक्षकारण विषय विवादेन । १५ न केवलं परममुक्तः । १६ कारणात् ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International