________________
३१८
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० न्यत्राननुवृत्तेः । अभ्युपगमविरोधश्च; न खलु परेण बुद्ध्यादिक्षणोपादानोऽपरोऽखिलो बुद्ध्यादिक्षणोऽभ्युपगम्यते । अन्यथा मुक्त्यऽवस्थायामपि पूर्वपूर्वबुध्याधुपादानक्षणादुत्तरोत्तरोपादेयबुध्यादिक्षणोत्पत्तिप्रसङ्गान बुद्ध्यादिसन्तानस्यात्यन्तोच्छेदः ५स्यात् । द्वितीयपक्षे तु पाकजपरमाणुरूपादिनानेकान्तः; तथाविधसन्तानत्वस्यात्र सद्भावेप्यत्यन्तोच्छेदाभावात् ।
विरुद्धश्चायं हेतुः; कार्यकारणभूतक्षणप्रवाहलक्षणसन्तानत्वस्य एकान्तनित्यवदनित्येप्यसम्भवात् , अर्थक्रियाकारित्वस्यानेकान्ते एव प्रतिपादयिष्यमाणत्वात् । १० शब्दविद्युत्प्रदीपादीनामप्यत्यन्तोच्छेदासम्भवात् साध्यवि. कलो दृष्टान्तः। न च ध्वस्तस्यापि प्रदीपादेः परिणामान्तरेण स्थित्यः भ्युपगमे प्रत्यक्षबाधा; वारि स्थिते तेजसि भासुररूपाभ्युपगमेपि तत्प्रसङ्गात् । अथोष्णस्पर्शस्य भासुररूपाधिकरणतेजोद्रव्याभावेऽसम्भवात् तत्रानुद्भूतस्यास्य परिकल्पनमनुमानतः, तर्हि 'प्रदीपादे. १५रप्यनुपादानोत्पत्तेरिव अन्त्यावांतोऽपरापरपरिणामाधारत्वमन्तरेण सत्त्वकृतकत्वादिकं न सम्भवति' इत्यनुमानतस्तत्सन्तत्यनुच्छेदः किन्न कल्प्यते? तथाहि-पूर्वापरस्वभावपरिहारावाप्तिस्थितिलक्षणपरिणामवान् प्रदीपादिः सत्त्वात्कृतकत्वाद्वाघटादिवत्।
सत्प्रतिपक्षश्च; तथाहि-वुद्ध्यादिसन्तानो नात्यन्तोच्छेदवान्, २० अखिलप्रमाणानुपलभ्यमानतथोच्छेदत्वात् , य एवं स न
तत्त्वेनोपेयो यथा पाकजपरमाणुरूपादिसन्तानः, तथा चायम् , तस्मान्नात्यन्तोच्छेद्वानिति । न च प्रस्तुतानुमौनत एव सन्ता. नोच्छेदप्रतीतेः सर्वप्रमाणानुपलभ्यमानतथोच्छेदत्वमसिद्धम् ।
सन्तानत्वसाधनस्यासत्प्रतिपक्षत्वासिद्धेः, तत्सिद्धौ हि हेतोर्गम २५कत्वम् । कालात्ययापदिष्टत्वं च; अनेनैवानुमानेन बाधितपक्षनि. र्देशानन्तरं प्रयुक्तत्वात् ।
यच्च तत्त्वज्ञानस्य विपर्ययज्ञानव्यवच्छेदक्रमेण निःश्रेयसहेतुत्वमित्युक्तम् । तदप्युक्तिमात्रम्; ततो विपर्ययज्ञानव्यवच्छेदक्रमेण धर्माधर्मयोस्तत्कार्यस्य च शरीरादेरभावपि अनन्तातीन्द्रियाखि. ३० लपदार्थविषयसम्यग्ज्ञानसुखादिसन्तानस्याभावासिद्धेः । इन्द्रियजज्ञानादिसन्तानोच्छेदसाधने च सिद्धसाधनम् । इन्द्रियाद्य
१ दृष्टान्ते प्रदीपे । २ उपादेयः। ३ आदिना गन्धरसादि । ४ कथञ्चिन्नित्यानिये । ५ तमोरूपेण। ६ उष्णे। ७ अनौ। ८ ई। ९ सन्तानत्वं हेतुः। १० अभ्युपगम्यः । ११ सन्तानत्वादित्यतः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org