________________
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० एवं शब्दाद्वैतज्ञानमपि मिथ्यारूपतया निःश्रेयसाप्रसाधकं द्रष्टव्यम् । निरस्तं चात्माद्वैतं शब्दाद्वैतं च प्राक्प्रबन्धेनेत्यलमतिप्रसङ्गेन ।
प्रकृतिपुरुषविवेकोलम्भः खरूपे चैतन्यमात्रेऽवस्थानलक्षण५निःश्रेयसस्य साधनमित्यन्ये । तथाहि-पुरुषार्थसम्पादनाय प्रधान प्रवर्त्तते । पुरुषार्थश्च द्वेधा-शब्दादिविषयोपलब्धिः, प्रकृतिपुरुषविवेकोपलम्भश्च । सम्पन्ने हि पुरुषार्थे चरितार्थत्वात्प्रधान न शरीरादिभावेन परिणमते, विज्ञान(त) वा दुष्टतया कुष्टिनीस्त्रीबद्भोगसम्पादनाय पुरुष नोपसर्पति; इत्यप्यसाम्प्रतम् ; प्रधाना१० सत्त्वस्य प्रागेवोक्तत्वात् । सति हि प्रधाने पुरुषस्य तद्विवेको. पलम्भः स्यात् । अस्तु वा तत्; तथापि पुरुषस्थं निमित्तमनपेक्ष्य तत्प्रवत्तेत, अपेक्ष्य वा ? न तावदनपेक्ष्य; मुकात्मन्यपि शरीरा. दिसम्पादनाय तत्प्रवृत्तिप्रसङ्गात् । अथापेक्ष्य प्रवर्त्तते; किं तद्
पेक्ष्यम् ? विवेकानुपलम्भः, अदृष्टं वा? न तावद्विवेकानुप१५लम्भः तस्य विवेकोलम्भविनष्टत्वेन मुक्तात्मन्यपि सम्भवात् ।
न चानुत्पत्तिविनाशयोरसत्त्वेन विशेषं पश्यामः । द्वितीयविकल्पोप्ययुक्तः, अदृष्टस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्यो. भयत्रांविशेषात्।
दुष्टतया च विज्ञातं प्रधानं पुरुषं नोपसर्पतीति चायुक्तम् । २० तस्याचेतनतया 'अहमनेनं दुष्टतया विज्ञातम्' इति ज्ञानासम्भवात् । ततः पूर्ववत्प्रवृत्तिरविशेषेणैव स्यात् इत्यलमतिप्रेसङ्गेन।
'तैदी ट्रेष्टुः स्वरूपेऽवस्थानं मोक्षः' इति चाभ्युपगतमेव, विशेषगुणरहितात्मस्वरूपे तस्यावस्थानाभ्युपगमात् । 'चिद्रू
पेऽवस्थानम्' इत्येतत्तु न घटते; अनित्यत्वेन चिद्रूपताया २५विनाशात् । न चाक्षाद्यन्वयव्यतिरेकानुविधायिन्यास्तस्या नित्यत्वे
१ वास्तवभेदसिद्धिप्रकारेण। २ अद्वैतनिराकरणस्य। ३ का। ४ भेदभावनाज्ञानम्। ५ प्रति प्रधानं। ६ भेदभावनाभावः। ७ भेदभावनाया योग्यवस्थायां सम्भवात् । मुक्त्यवस्थायां तु तस्या विनाशात्प्रयोजनाभावात् । ८ किञ्च । ९ विवेकानुपलम्भो नाम विवेकोपलम्भाभावः । कथम् ? विवेकोपलम्भस्यानुत्पत्तिः संसार्यात्मनि विवेकोपलम्भस्य विनाशो मुक्तात्मनि । १० संसारिमुक्तात्मनोः। ११ पुरुषेण । १२ साङ्ख्यपरिकल्पितमुक्तयुपायनिराकरणेन। १३ उक्तरीत्या मोक्षोपायस्वरूपं विचार्यमाणं नास्ति चेन्मा भून्मोक्षस्वरूपं तु स्यादित्युक्ते आह । १४ मुत्त्यवस्थायाम् । १५ आत्मनः। १६ (आत्मनः)। १७ योगेन। १८ स्वरूपे निर्दिष्टमेतत् । १९ यौगमते चिद्रूपं बुद्धिः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org