________________
मोक्षस्वरूपविचारः
सू० २।१२ ]
३१५
ह्यवस्थिते ध्यातर्यतिशयाधायकत्वेन स्यान्न क्षणिकज्ञानमात्रे । न च सन्तानापेक्षयाऽतिशयो युक्तः; तस्यैवासत्त्वात्, अविशिष्टाद्विशिष्टोत्पत्तेरयोगाच्च । अविशिष्टाद्धि पूर्वज्ञानादुत्तरोत्तरं साति शयं कथमुत्पद्येत ? तत्कथं योगिनां सकलकल्पनाविकलज्ञानसम्भव इति ?
यच्च 'सन्तानोच्छित्तिर्निःश्रेयसम्' इति मैतम् ; तत्र निर्हेतुकतया विनाशस्योपयवैयर्थ्यमयत्त सिद्धत्वादिति ।
अन्ये त्वनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयशरीरादिलाभो निःश्रेयसमिति मन्यन्ते । तथाहि - नित्यत्वभावनायां ग्रहोऽनित्यत्वे च द्वेष इत्युभयपरिहारार्थमनेकान्तभौवना; इत्यप्यपरीक्षिताभि- १० धानम् ; मिथ्याज्ञानस्य निःश्रेयसकारणत्वायोगात् । अनेकान्तज्ञानं मिथ्यैव विरोधवैयधिकरण्याद्यनेकबाधकोपनिपातात् । स्वदेशादिषु सत्त्वं परदेशादिषु वासत्त्वम् इतरेतराभावादिष्यते एव । स्वकार्येषु कर्तृत्वं कार्यान्तरेषु चाकर्तृत्वं न प्रतिषिध्यते, येद्यस्यन्वयव्यतिरेकाभ्यामुत्पत्तौ व्याप्रियमाणमुपलब्धं तत्तस्य १५ कारणं नान्यस्येत्यभ्युपगमात् । तथा मुक्तावप्यनेकान्तो न व्यावर्त्तत इति स एव मुक्तः संसारी च' इति प्रसक्तम् । तथाऽनेकातेप्यनेकान्तप्रसङ्गात् सदसन्नित्यानित्यादिरूपव्यतिरिक्तं रूपान्तरमपि प्रसज्येतेति ।
अन्ये त्वात्मैकत्वज्ञानात्परमात्मनि लेयः सम्पद्यते इति ब्रुवैते |२० तथाहि - आत्मैव परमार्थ संस्ततोऽन्यत्र भेदे प्रमाणाभावात् । प्रत्यक्षं हि पैदार्थानां सद्भावस्यैव ग्राहकं न भेदस्येत्य विद्या समारो पितो भेदः तेप्यतत्त्वज्ञाः आत्मैकत्वज्ञानस्य मिथ्यारूपतया निःश्रेयसाऽसाधकत्वात् । तन्मिथ्यात्वं चार्थानां प्रेमाणतो वस्तवभेदप्रसिद्धेः ।
१ रागादिसहितत्वेन । २ विशुद्धज्ञानोत्पत्तेः । ३ किञ्च । ४ निर्विशेषस्य । ५ योगाचारस्य । ६ ध्यानादेः । ७ विनाशस्य । ८ जैनाः । ९ मोक्षशिलोपरि । १० स्वरूपदेहो वा । ११ आदिशब्देन शानादि । १२ स्नेहः । १३ युक्ता । १४ वैशेषिकेणापि मया । १५ कारणम् । १६ कार्यस्य । 1 १७ दूषणान्तरम् । १८ सत्वे सत्त्वमसत्त्वं चेत्यनेन प्रकारेण । १९ ब्रह्माद्वैतवादिनः । २० प्रवेशः । २१ मोक्षम् । २२ निर्विकल्पकम् । २३ घटापटादीनाम् । २४ हेतोः । २५ मिथ्याज्ञानेन । २६ कल्पितः । २७ घटपटादीनाम् । २८ प्रत्यक्षादेः । २९ परमार्थ ।
Jain Educationa International
For Personal and Private Use Only
२५.
www.jainelibrary.org