SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ २८८ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरिक ४. यदि चासदेव कार्य सर्वस्मात्तृणपांशुलोष्ठादिकात्सर्वं सुवर्णरजतादि कार्य स्यात् , तादात्म्यविगेमस्य सर्वस्मिन्नविशिष्टत्वात्। न च सर्व सर्वतो भवति तस्मात्तत्रैव तस्य सद्भावसिद्धिः।। ननु कारणानां प्रतिनियंतेष्वेव कार्येषु प्रति नियताः शक्तयः। ५ तेन कार्यस्यासत्वाविशेषेपि किञ्चिदेव कार्य कुर्वन्ति; इत्यप्यनुतरम्, शक्ता अपि हि हेतवः शक्यक्रियमेव कार्य कुर्वन्ति नाशक्यक्रियम् । यच्चासत्तन्न शक्यक्रियं यथा गगनाम्भोरुहम्, असच्च परमते कार्यमिति । बीजादेः कारणभावाच्च सत्कार्य कार्यासत्त्वे तदयोगात् । १० तथाहि-न कारणभावो वीजादेः अविद्यमानकार्यत्वात्खरविषाणवत् । तत्सिद्धमुत्पत्तेः प्राकारणे कार्यम् । तच्च कारणं प्रधानमेवेत्यावेदयति हेतुपञ्चकात्"भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च। कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥" [सांख्यका० १५] लोके हि यस्य कर्ता भवति तस्य परिमाणं दृष्टम् यथा कुलालः परिमितान्मृत्पिण्डात्परिमितं प्रस्थग्राहिणमाढकग्राहिणं च घट करोति । इदं च महदादि व्यक्तं परिमितं दृष्टम्-एका बुद्धिः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्चभूता२० नीति । अतो यत्परिमितं व्यक्तमुत्पादयति तत्प्रधानमित्यवगमः। इतश्चास्ति प्रधानं मेदानां समन्वयदर्शनात् । यजातिसमन्वितं हि यदुपलभ्यते तत्तन्मयकारणसम्भूतम् यथा घटशरावादयो भेदा मृजातिसमन्विता मृदात्मककारणसम्भूताः, सत्त्वरजस्तमोजातिसमन्वितं चेदं व्यक्तमुपलभ्यते । सत्त्वस्य हि २५प्रसादलाघवोर्षप्रीत्यादयः कार्यम् । रजसस्तु तापशोषोद्वेगा दयः । तमसश्च दैन्यवीभत्सगौरवादयः । अतो महदादीनां प्रसाददैन्यतापादिकार्योपलम्भात्प्रधानान्वितत्र्वसिद्धिः। १ तर्हि । २ अभावस्य । ३ उपादानेऽनुपादाने च । ४ कारणे। ५ तदुपादाने। ६ शक्यक्रियेषु। ७ परमते कार्य धर्मि शक्यक्रियं न भवति असत्त्वादिति शेषः । ८ महदादि। ९ महदादीनाम् । १० कार्यस्य । ११ महदादिव्यक्तमेककारणपूर्वक परिमितत्वाद् घटादिवत् । १२ महदादिव्यक्तमेककारणसम्भूतमेकस्वरूपान्वितत्वाता घटघटीशरावोदश्चनादिवत् । १३ उत्सव । १४ महदादिव्यक्तस्य । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy