________________
सू० २।१२] ईश्वरवादः". धूमादिवत् । दृष्टान्तोपलब्धकार्यत्वादेस्ततो भेदे पर्वतादिधूमान्महानसधूमस्यापि भेदः स्यात् ।
ननु कार्यत्वस्य बुद्धिमत्कारणपूर्वकत्वेनाविनाभावोऽसिद्धः, अष्टप्रभवैः स्थावरादिभिर्व्यभिचारात्; तन्न; साध्याभावेपि प्रवर्त्तमानो हेतुळभिचारीत्युच्यते, न च तत्र कर्बभावो निश्चितः ५ किन्त्वग्रहणम् । उपलब्धिलक्षणप्राप्तत्वे हि ततः कर्तृरभावनिश्चयः, न च तत्तस्येष्यते । ___ अथ क्षित्याद्यन्वयव्यतिरेकानुविधानोपलम्भात्तेषां नातिरिसँस्य कारणत्वकल्पना अतिपँसङ्गात्; तर्हि धर्माधर्मयोरपि तत्र कारणता न भवेत् । न च तयोरकारणतैवः तरुतृणादीनां सुख-१० दुःखसाधनत्वाभावप्रसङ्गात्, धर्माधर्मनिरपेक्षोत्पत्तीनां तदसाधनत्वात् । न चैवम् , न हि किञ्चिजगत्यस्ति वस्तु यत्साक्षात्परम्परया वा कस्यचित्सुखदुःखसाधनं न स्यात् ।
ननु क्षित्यादिसामग्रीप्रभवेषु स्थावरादिषु 'बुद्धिमतोऽभावादग्रहणं भावेप्यनुपलब्धिलक्षणप्राप्तत्वाद्वा' इति सन्दिग्धो व्यति-१५ रेकः कार्यत्वस्य; इत्यप्यपेशलम् ; सकलानुमानोच्छेदप्रसङ्गात् । यंत्र हि वढेरदर्शने धूमो दृश्यते तत्र-'किं वखूरदर्शनमभावादनुपलब्धिलक्षणप्राप्तत्वाद्धा' इत्यस्यापि सन्दिग्धव्यतिरेकत्वान्न गमकत्वम् । यया सामय्या धूमो जन्यमानो दृष्टस्तां नातिवर्त्तते इत्यन्यत्रापि समानम्-कार्य कर्तृकरणादिपूर्वकं कथं तदतिक्रम्य २० वर्तेतातिप्रसङ्गीत् ?
अनुपलम्भस्तु शरीराद्यभावान्न त्वसत्त्वात् , यत्र हि सशरीरस्य कुलालादेः कर्तृता तत्र प्रत्यक्षेणोपलम्भो युक्तोऽत्रै तु चैतन्यमात्रेणोपादानाद्यधिष्टानान्न प्रत्यक्षप्रवृत्तिः । न च शरीराद्यभावे कर्तृत्वाभावस्तस्य शरीरेणाविनाभावाभावात् । शरीरान्तररहि-२५ तोपि हि सर्वश्चेतनः स्वशरीरप्रवृत्तिनिवृत्ती करोतीति, प्रयत्नेच्छावशात्तत्प्रवृत्तिनिवृत्तिलक्षणकार्याविरोधे प्रेकृतेपि सोस्तु । ज्ञानचिकीर्षाप्रयत्नाधारता हि कर्तृत्वम् न सशरीरेतरता, घटादि
१ ता। २ क्षित्यादिगतकार्यत्वादेः(पञ्चमी)। ३ असिद्धत्वे उद्भाविते सकलानुमानोच्छेदः प्रत्युत्तरमित्यर्थः । ४ भूरुहादिभिः। ५ ईश्वरस्य । ६ ईश्वरस्य । ७ कुम्भकारान्वयव्यतिरेकानुविधायिनि घटे तन्तुवायस्य हेतुत्वं स्यात् । ८ कत्तः । ९ विपक्षव्यावृत्तिः। १० पर्वते। ११ साधनस्य। १२ महानसप्रदेशे। १३ कार्यत्वे । १४ दृष्टम् । १५ घटोपि कुम्भकारहेतुको न स्यात् । १६ ईश्वरस्य । १७ स्थावरादिकार्ये । १८ शानमात्रेण । १९ कर्तुः । २० प्रेरणात् । २१ स्थावरादौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org