SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ २६६ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० । नाप्यशेषज्ञः क्वचित्कदाचित्केनचित्प्रतिपन्नो येनासौ स्मृत्वा निषेध्येत,सर्वत्र सर्वदा तनिषेधविरोधात्। न च निषेध्यनिषेध्याधारयोरप्रतिपत्तौ निषेधो नामातिप्रसङ्गात् । न ह्यप्रतिपन्ने भूतले घटे च घटनिषेधो घटते। यथा चाभावप्रमाणस्योत्पत्तिः स्वरूपं विषयो ५वा न सम्भवति तथा प्राक्प्रपञ्चेनोक्तमिति कृतमतिप्रसङ्गेन।। - तन्नाभावप्रमाणादप्यशेषज्ञाभावसिद्धिः । तदेवं सिद्धं सुनिश्चितासम्भवद्वाधकप्रमाणत्वमप्यशेषज्ञस्य प्रसाधकम् इत्यलमतिमसङ्गेन। ननु चावरणविश्लेषादशेषवेदिनो विज्ञानं प्रभवतीत्यसाम्प्रतम्। १० तैस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्, तदयुक्तम् । अनादिमुक्तत्वस्यासिद्धेः । तथाहि-नेश्वरोऽनादिमुक्तो मुक्तत्वात्तदन्यमुक्तवत् । बन्धापेक्षया च मुक्तव्यपदेशः, तद्रहिते चास्याप्यभाः स्यादाकाशवत् । ननु चानादिमुक्तत्वं तस्यानादेः क्षित्यादिकार्यपरम्परायाः कर्तृ१५ त्वात्सिद्धम् । न चास्य तत्कर्तृत्वमसिद्धम् ; तथाहि-क्षित्यादिकं बुद्धिमद्धेतुकं कार्यत्वात् , यत्कार्य तद्बुद्धिमद्धेतुकं दृष्टम् यथा घटादि, कार्य चेदं क्षित्यादिकम् , तस्माद्बुद्धिमद्धेतुकम् । न चात्र कार्यत्वमसिद्धम्; तथाहि-कार्य क्षित्यादिकं सावयवत्वात् । यत्सावयवं तत्कार्य प्रतिपन्नम् यथा प्रासादादि, सावयवं चेदम् , २० तस्मात्कार्यम्। ननु क्षित्यादिगतात्कार्यत्वात्सावयवत्वाच्चान्यदेव प्रासादादौ कार्यत्वं सावयवत्वं च यदक्रियादेशिनोपि कृतबुद्युत्पादकम् , ततो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम् ; इत्यसमीक्षिताभिधानम्, यतोऽव्युत्पन्नान्प्रतिपत्तॄनधिकृत्यैवमुच्यते, व्युत्प२५ न्नान्वा? प्रथमपक्षे धूमादावप्यसिद्धत्वप्रसङ्गात्सकलानुमानो च्छेदः । द्वितीयपक्षे तु नासिद्धत्वम् ; कार्यत्वादेवुद्धिमत्कारणपूर्वकत्वेन प्रतिपन्नाविनाभविस्य क्षित्यादौ प्रसिद्धः पर्वतादौ १ सर्वशसद्भावे प्रमाणोपन्यासविस्तरेण । २ अशेषवेदी सावरणो न भवति अनादिमुक्तत्वाद् । यः सावरणः सोनादिमुक्तो न भवति यथा स्तम्भादिः। ३ मुक्तो भवति अनादिमुक्तो भवतीति सन्दिग्धानकान्तिकत्वे सतीदं वक्यमाह । ४ ईश्वरो मुक्तव्यपदेशभाग् न भवति बन्धरहितत्वादाकाशवत् । ५ पुरुषस्य । ६ कार्यत्वस्य सावयवत्वस्य च । ७ प्रासादादौ यदक्रियादर्शिनः कृतबुद्ध्युत्पादकं दृष्टं कार्यत्वं सावयत्वं वा साधनं तत् क्षित्यादौ नास्तीत्यसिद्धत्वमिति । ८ साध्यासाधनप्रतिपत्तिरहितान् । ९ यथाविधो धूमो दृष्टान्ते प्रतिपन्नस्तथाविधस्य दार्शन्तिकेऽभावात् । १० नुः। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy