________________
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
स्यrप्रकाशनात्, अन्यथातिप्रसङ्गः । उपयोगस्तु रूपादिविषयग्रहणव्यापारः, विषयान्तरासक्ते चेतसि सन्निहितस्यापि विषयस्याग्रहणात्तत्सिद्धिः । एवं मनोपि द्वेधा द्रष्टव्यम् ।
२३०
ततः "पृथिव्यप्तेजोवायुभ्यो घ्राणरसनचक्षुः स्पर्शनेन्द्रिय५ भावः " [ ] इति प्रत्याख्यातम् पृथिव्यादीनामन्योन्यमेकीन्तेन द्रव्यान्तरत्वासिद्धेः, अन्यथा जलादेर्मुक्ताफलादिपरिणामाभावप्रसक्तिरात्मादिवत् । न चैवम्, प्रत्यक्षादिविरोधात् ।
अथ मतम् - पार्थिवं घ्राणं रूपादिषु सन्निहितेषु गन्धस्यैवाभिव्यअकत्वान्नागकर्णिकाविमर्दककरतलवत्; तदप्यसङ्गतम्। हेतोः १० सूर्यरश्मिभिरुदकसेकेन चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्यदित्यमरीचिकाभिर्गन्धाभिव्यक्तिर्भूमे स्तूदकसे केनेति । 'आप्यं रसनं रूपादिषु सन्निहितेषु रसस्यैवाभिव्यञ्जकत्वाल्लालावत्' इत्यत्रापि हेतोर्लवणेन व्यभिचारः, तस्यानाप्यत्वेपि रसाभिव्यञ्जकत्वप्रसिद्धेः । 'चक्षुस्तैजसं रूपादिषु सन्निहितेषु रूपस्यैवाभिव्यञ्जक१५ त्वात्प्रदीपवत्' इत्यत्रापि हेतोर्माणिक्याद्युद्योतितेनानेकान्तः । 'वायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यञ्जकत्वात्तोयेशीतस्पर्शव्यञ्जक वाय्वैवयविवत्' इत्यत्रापि कर्पूरादिनों सलिलेंशीतस्पर्शव्यञ्जकेनानेकान्तैः ।
पृथिव्यप्तेजःस्पर्शाभिव्यञ्जकत्वाच्चास्यै
पृथिव्यादिकार्यत्वानु२० षङ्गो वायुस्पर्शाभिव्यञ्जकत्वाद्वायुकार्यत्ववत् । चक्षुषश्च तेजोरूपाभिव्यञ्जकत्वात्तेजः कार्यत्ववत् पृथिव्यप्समवायिरूपव्यञ्जकत्वापृथिव्यपकार्यत्वप्रसङ्गः । रसनस्य चाप्यरसाभिव्यञ्जकत्वादकार्यत्ववत् पृथिवीरसाभिव्यञ्जकत्वात्पृथिवीकार्यत्वप्रसङ्गः ।
'नाभसं श्रोत्रं रूपादिषु सन्निहितेषु शब्दस्यैवाभिव्यञ्जकत्वात्' २५ इति चाऽसाम्प्रतम् ; शब्दे नभोगुणत्वस्याग्रे प्रतिषेधात् । ततश्वेदमप्ययुक्तम्- "शब्दः स्वसमानजातीयविशेषगुणवतेन्द्रियेण
१ तदभावेप्यर्थप्रकाशनं चेत् । २ पिशाचपरमाण्वादेरपि ग्रहणप्रसङ्गः । ३ विषयं प्रत्यभिमुखता । ४ नैयायिकमतम् । ५ सर्वथा । ६ आदिपदेन चन्द्रकान्तादेश्च । ७ पार्थिवत्वाभावात् । ८ नुः । ९ तैजसत्वाभावात् । १० तोयगत । ११ यसः । १२ पार्थिवेन । १३ सलिलगत । १४ वायव्याभावात् । १५ स्पर्शनेन्द्रियस्य । १६ शब्दो विशेषगुणवतेन्द्रियेण गृह्यते इत्युध्यमाने सिद्धसाध्यता भविष्यति । न हि जैनेनापि रूपलक्षण गुणवता श्रोत्रेण शब्दो न गृह्यते इत्यभ्युपगम्यते । तद्वयवच्छेदार्थ समानजातीयविशेषगुणवतेन्द्रियेण गृह्यते इत्युक्तम् । तथापि स्तम्भगतरूपेण समानजातीयरूपलक्षण विशेष गुणवतेन्द्रियेण शब्दो गृह्यत इत्यभ्युपगमात्सिद्धसाध्यता ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International