________________
सू० २/५ ]
चक्षुः सन्निकर्षवादः
२२९
विषयः, तत्रैवाभिमुख्यसम्भवेनामीषां प्रकाशनयोग्यतोपपत्तेः । कथमन्यथैकशरीरप्रदेशान्तरगत स्पर्शनेन तत्प्रदेशान्तरगतः स्पर्शः प्रकाश्येत ? न च कामलादयोऽञ्जनादयो वा चक्षुषः कारणं येन तेषामप्यनेन न्यायेन प्रकाशनं न स्यात्, स्वसामग्रीतस्तत्सन्निधानात्प्रागेवास्योत्पन्नत्वात् । नापि कालात्ययापदिष्टशेयम्; प्रत्य- ५ क्षस्य पक्षाबाधकत्वेन प्रागेव समर्थनात्, आगमस्य च तद्वाधकस्यासम्भवात् । नापि सत्प्रतिपक्षः विपरीतार्थोपस्थापकानुमानानां प्रागेव प्रतिध्वस्तत्वादिति । तथा, 'चक्षुर्गत्वा नाऽर्थेनाभिसम्बद्ध्यते इन्द्रियत्वात्स्पर्शनादीन्द्रियवत्' इत्यनुमानाच्चास्याप्राप्यकारित्वसिद्धिः । अर्थस्य च तद्देशागमने प्रत्यक्षविरोध इति ।
;
१०
तच्चोक्तप्रकारं प्रत्यक्षं मुख्य सांव्यवहारिकप्रत्यक्षप्रकारेण द्विप्रकारम् । तत्र सांव्यवहारिक प्रत्यक्षप्रकारस्योत्पत्तिकारणस्वरूपे प्रकाशयति
इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यवहारिकम् ॥ ५॥
विशदं प्रत्यक्षमित्यनुवर्त्तते । तत्र समीचीनोऽबाधितः प्रवृत्तिनिवृत्तिलक्षणो व्यवहारः संव्यवहारः, स प्रयोजनमस्येति सांव्यबहारिकं प्रत्यक्षम् । नन्वेवंभूतमनुमानमप्यत्रै सम्भवतीति तदपि सांव्यवहारिकं प्रत्यक्षं प्राप्नोतीत्याशङ्कापनोदार्थम् -'इन्द्रियानिन्द्रियनिमित्तं देशतः' इत्याह । देशतो विशदं यत्तत्प्रयोजनं ज्ञानं २० तत्सांव्यवहारिकं प्रत्यक्षमित्युच्यते नान्येदित्यनेन तत्स्वरूपम्, इन्द्रियानिन्द्रियनिमित्तमित्यनेन पुनस्तदुत्पत्तिकारणं प्रकाश
यति ।
तत्रेन्द्रियं द्रव्यभावेन्द्रियभेदाद्वेधा । तत्र द्रव्येन्द्रियं गोलकादिपरिणामविशेष परिणत रूपरसगन्धस्पर्शवत्पुद्गलात्मकम् पृथि २५ व्यादीनामत्र्त्यन्तभिन्नजातीयत्वेन द्रव्यान्तरत्वासिद्धितस्तस्य प्रत्येकं तदारब्धत्वासिद्धेः । द्रव्यान्तरत्वासिद्धिश्च तेषां विषयपरिच्छेदे प्रसाधयिष्यते । भावेन्द्रियं तु लब्ध्युपयोगात्मकम् । तत्राऽऽवरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिर्लब्धिः, तदभावे सतोप्यर्थ
१५
Jain Educationa International
"
१ स्वकारणव्यतिरिक्ते स्पर्शादावाभिमुख्यं नास्ति यदि । २ पूर्वानुमानप्रकारेण | ३ स्वष्टानिष्टयोरर्थयोः : । ४ लोके । ५ अनुमानादि । ६ आचार्य: । ७ इन्द्रियानिन्द्रिययोर्मध्ये । ८ सर्वाङ्गगतत्वग्, जिह्वा, नासा, गोलकपक्ष्मपुट, कर्णशष्कुलीति पञ्चसंख्यात्मकम् । ९ सर्वथा । १० चतुर्थे ।
प्र० क० मा० २०
For Personal and Private Use Only
www.jainelibrary.org