________________
सू० २।२] शक्तिस्वरूपविचारः
१९७ व्यपदेशार्थमुपकारान्तरपरिकल्पनया शक्यन्तरपरिकल्पनात् । अनर्थान्तरभूतोपकारकरणे तु स एव कृतः स्यात् । तथा च न शक्तिमानसौ तत्कार्यत्वाप्रसिद्धतत्कार्यत्वात् । शक्तिमतापि-शक्त्यन्तरान्वितेन, तद्रहितेन वा शक्तरुपकारः क्रियते? आद्यपक्षे शत्यन्तराणां ततो मेदः, अभेदोवा? उभयत्रानन्तरोक्तोभयदोषानुषङ्गोऽनवस्था च । तद्रहितेनानेन शक्तरुपकारे तु प्राच्यशक्ति-५ कल्पनाप्यपार्थिका तद्व्यतिरेकेणैव कार्यस्याप्युत्पत्तेरुपकारंवत् । शक्तिशक्तिमतोर्भेदाभेदपरिकल्पनायां विरोधादिदोषानुषङ्गः ।
तथा, असौ किमेका, अनेका वा? तत्रैकत्वे शक्तेर्युगपदनेककाोत्पत्तिर्न स्यात् । अनेकत्वेपि अनेकशक्तिमात्मन्यर्थोनेकशक्तिभिर्बिभृयादित्यनवस्थाप्रसङ्ग इति ।
अत्र प्रतिविधीयते । किं ग्राहकप्रमाणाभावाच्छेक्तेरभावः, अतीन्द्रियत्वाद्वा ? तत्राद्यः पक्षोऽयुक्तः; कार्योत्पत्यन्यथानुपपत्तिजनितानुमौनस्यैव तद्राहकत्वात् । ननु सामग्र्यधीनोत्पत्तिकत्वात्कार्याणां कथं तदन्यथानुपपत्तिर्यतोऽनुमानात्तत्सिद्धिः स्यात् ; इत्यप्यसमीचीनम् ; यतो नास्माभिः सामग्र्याः कार्यकारित्वं प्रतिषिध्यते,१५ किन्तु प्रतिनियतायास्तस्याः प्रतिनियतकार्यकारित्वम् अतीन्द्रियशक्तिसद्भावमन्तरेणासम्भाव्यमित्यसावप्यभ्युपगन्तव्या । कथमन्यथा प्रतिवन्धकमणिमन्त्रादिसन्निधानेप्यग्निः स्फोटादि. कार्य न कुर्यात् सामग्र्यास्तत्रापि सद्भावात् ? तेन ह्यग्नेः स्वरूपं प्रतिहन्यते, सहकारिणो वा? न तावदाद्यः पक्षः क्षेमङ्करः; २० अग्निस्वरूपस्य तदवस्थतयाध्यक्षेणैवाध्यवसायात् । नापि द्वितीयः, सहकारिस्वरूपस्याप्यङ्गुल्यग्निसंयोगलक्षणस्याविकलतयोपलक्षणात् । अतः शक्तेरेवानेन प्रतिबन्धोभ्युपगन्तव्यः।
१ शक्तिमतोऽयमुपकार इति सम्बन्धव्यपदेशार्थम् । २ उपकारस्य । ३ शक्तिसान् । ४ वह्निः। ५ उपकारवत् । ६ द्वितीयपक्षे। ७ निष्फला। ८ स्फोटादेः । ९ शक्तिरहितेन शक्तिमताऽग्निना उपकारस्योत्पत्तिर्यथा। १० अन्धकारनाश, अर्थप्रकाश, वत्तिकादाह, तैलशोषादि । ११ अर्थोऽनेकशक्तीरेकशक्या विभत्ति चेत्तदानेकशक्तीनामेकत्वप्रसङ्गः-एकशक्त्या याप्यमानत्वात्तदन्यतमशक्तिवत् । १२ अतीन्द्रियायाः। १३ वहिलक्षणोर्थो दहनशक्तियुक्तस्ततः स्फोटादिकार्योत्पत्त्यन्यथानुपपत्तेरिति । १४ समवाय्यसमवायिनिमित्तकारणानां परस्परसम्बन्धलक्षणा सामग्री । १५ जैनैः। १६ अतीन्द्रियशक्त्यभावेपि सामग्र्याः कार्यकारित्वे । १७ सामग्र्याः प्रतिबन्धकसन्निधाने सद्भावो नास्तीत्युक्ते आह । १८ प्रतिबन्धकेन । १९ प्रतिबन्धकमणिमत्रादिना । २० परेण भवता ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org